अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या । प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते
श्रुतं हरति पापानि तथाऽरोग्यं प्रयच्छति । रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् । तस्मिन् श्रुते वैरिकृतं भयं पुंसां न जायते
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः । ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां गतिम्
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः । दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः । राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतो ऽपि वा
आघूर्णितो वा वातेन स्थितः पोते महार्णवे । पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे
सर्वाबाधासु घोरासु वेदनाभ्यर्दितो ऽपि वा । स्मरन्ममैतच्छरितं नरो मुच्येत सङ्कटात्
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा । दूरादेव पलायन्ते स्मरतश्चरितं मम
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा । पश्यतामेव देवानां तत्रैवान्तरधीयत
ते ऽपि देव्या निरातङ्का स्वाधिकारान् यथा पुरा । यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः
दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि । जगद्विध्वंसके तस्मिन् महोग्रे ऽतुलविक्रमे । निशुम्भे च महावीर्ये शेषाः पातालमाययुः
एवं भगवती देवी सा नित्यापि पुनः पुनः । सम्भूय कुरुते भूप जगतः परिपालनम्
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते । सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर । महाकाल्या महाकाले महाकारीस्वरूपया
सैव काले महामारी सैव सृष्टिर्भवत्यजा । स्थितिं करोति भूतानां सैव काले सनातनी
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे । सैवाभावे तथालक्ष्मीर्विनाशायोपजायते
स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिबिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम्
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवंप्रभावा सा देवी ययेदं धार्यते जगत्
विद्या तथैव क्रियते भगवद्विष्णुमायया । तथा त्वमेष वैश्यश्च तथैवान्ये विवेकिनः । मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे
तामुपैहि महाराज शरणं परमेश्वरीम् । आराधिता सैव नृणां भोगस्वर्गापवर्गदा
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः । प्रणिपत्य महाभागं तमृषिं शंसितव्रतम्
निर्विण्णो ऽतिममत्वेन राज्यापहरणेन च । जगम सद्यस्तपसे स च वैश्यो महामुने
संदर्शनार्थमम्बाया नदीपुलिनसंस्थितः । स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्
तौ तस्मिन् पिलिने देव्याः कृत्वा मूर्ति महीमयीम् । अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ । ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः । परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन । मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि । अत्रैव च निजं राज्यं हतशत्रुबलं बलात्
सो ऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः । ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्