इत्थं यदा यदा बाधा दानवोत्था भविष्यति । तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम्
देव्युवाच एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्
मधुकैटभानाशं च महिषासुरघातनम् । कीर्तयिष्यिन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः । स्तोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम्
न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः । भविष्यति न दारिद्रयं न चैवेष्टवियोजनम्
शत्रुतो न भयं तस्य दस्युतो वा न राजतः । न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति
तस्मान्ममैतन्माहात्म्यं पठितव्यं सहाहितैः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत्
उपसर्गानशेषांस्तु महामारीसमुद्भवान् । तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम
यत्रैतत् पठ्यते सम्यङ्नित्यमायतने मम । सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम्
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे । सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च
जानताजानता वापि बलिपूजां तथा कृताम् । प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम्
शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः
सर्वबाधाविनिर्मृक्तो धनधान्यसमन्वितः । मनुष्यो मत्प्रसादेन भविष्यति न संशयः
श्रुत्वा ममैतन्माहात्म्यं तथोत्पत्तीः पृथक् शुभाः । पराक्रमं च युद्धेषु जायते निर्भयः पुमान्
रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते । नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम्
शान्तिकर्मणि सर्वत्र तथा दुः स्वप्नदर्शने । ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः । दुः स्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते
बालग्रहाभिभूतानां बालानां शान्तिकारकम् । संघातभेदे च नृणां मैत्रीकरणमुत्तमम्
दुर्वृत्तानामशेषाणां बलहानिकरं परम् । रक्षोभूतपिशाचानां पठनादेव नाशनम्
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः । विप्राणां भोजनैर्हेमैः प्रोक्षणीयैरहर्निशम्
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या । प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते
श्रुतं हरति पापानि तथाऽरोग्यं प्रयच्छति । रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् । तस्मिन् श्रुते वैरिकृतं भयं पुंसां न जायते
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः । ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां गतिम्
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः । दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः । राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतो ऽपि वा
आघूर्णितो वा वातेन स्थितः पोते महार्णवे । पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे
सर्वाबाधासु घोरासु वेदनाभ्यर्दितो ऽपि वा । स्मरन्ममैतच्छरितं नरो मुच्येत सङ्कटात्
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा । दूरादेव पलायन्ते स्मरतश्चरितं मम
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा । पश्यतामेव देवानां तत्रैवान्तरधीयत