भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् सुदानवान् । रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः । स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्
भुयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि । मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा
ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् । कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः
ततो ऽहमखिलं लोकमात्मदेहसमुद्भवैः । भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि । तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् । दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति
पुनश्चाहं यदा भीमं रूप कृत्वा हिमाचले । रक्षांसि भक्षयिष्यामि पुनीनां त्राणकारणात्
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः । भीमा देवीति विख्यातं तन्मे नाम भविष्यति
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति । तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम्
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् । भ्रामरीति च मां चोकास्तदा स्तोष्यन्ति सर्वतः
इत्थं यदा यदा बाधा दानवोत्था भविष्यति । तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम्
देव्युवाच एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्
मधुकैटभानाशं च महिषासुरघातनम् । कीर्तयिष्यिन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः । स्तोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम्
न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः । भविष्यति न दारिद्रयं न चैवेष्टवियोजनम्
शत्रुतो न भयं तस्य दस्युतो वा न राजतः । न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति
तस्मान्ममैतन्माहात्म्यं पठितव्यं सहाहितैः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत्
उपसर्गानशेषांस्तु महामारीसमुद्भवान् । तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम
यत्रैतत् पठ्यते सम्यङ्नित्यमायतने मम । सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम्
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे । सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च
जानताजानता वापि बलिपूजां तथा कृताम् । प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम्
शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः
सर्वबाधाविनिर्मृक्तो धनधान्यसमन्वितः । मनुष्यो मत्प्रसादेन भविष्यति न संशयः
श्रुत्वा ममैतन्माहात्म्यं तथोत्पत्तीः पृथक् शुभाः । पराक्रमं च युद्धेषु जायते निर्भयः पुमान्
रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते । नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम्
शान्तिकर्मणि सर्वत्र तथा दुः स्वप्नदर्शने । ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः । दुः स्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते
बालग्रहाभिभूतानां बालानां शान्तिकारकम् । संघातभेदे च नृणां मैत्रीकरणमुत्तमम्
दुर्वृत्तानामशेषाणां बलहानिकरं परम् । रक्षोभूतपिशाचानां पठनादेव नाशनम्
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः । विप्राणां भोजनैर्हेमैः प्रोक्षणीयैरहर्निशम्