शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमो ऽस्तु ते
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि । कौशाम्भः क्षरिके देवि नारायणि नमो ऽस्तु ते
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि । माहेश्वरीस्वरूपेण नारायणि नमो ऽस्तु ते
मयूरकुक्कुटवृते महाशक्तिधरे ऽमघे । कौमारीरूपसंस्थाने नारायणि नमो ऽस्तु ते
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे । प्रसीद वैष्णवीरूपे नारायणि नमो ऽस्तु ते
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे । वराहरूपिणि शिवे नारायणि नमो ऽस्तु ते
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे । त्रैलोक्यत्राणसहिते नारायणि नमो ऽस्तु ते
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले । वृत्रप्राणहरे चैन्द्रि नारायणि नमो ऽस्तु ते
शिवदूतीस्वरूपेण हतदैत्यमहाबले । घोररूपे महारावे नारायणि नमो ऽस्तु ते
दंष्ट्राकरालवदने शिरोमालाविभूषणे । चामुण्डे मुण्डमथने नारायणि नमो ऽस्तु ते
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टे स्वधे ध्रुवे । महारात्रे महामाये नारायणि नमो ऽस्तु ते
मेधे सरस्वति वरे भूति बाभ्रवि तामसि । नियते त्वं प्रसीदेशे नारायणि नमो ऽस्तु ते
सर्वतः पाणिपादान्ते सर्वतो ऽक्षिशिरोमुखे । सर्वतः श्रवणघ्राणे नारायणि नमो ऽस्तु ते
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमो ऽस्तु ते
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् । पातु नः सर्वभीतिभ्यः कात्यायनि नमो ऽस्तु ते
ज्वालाकरालमत्युग्रमशेषासुरशूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमो ऽस्तुते
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् । सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः । शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति
एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् । रूपैरनेकैर्बहुधाऽत्ममूर्ति कृत्वाम्बिके तत्प्रकरोति कान्या
विद्यासु शास्त्रेषु विवेकदीपेष्व् आद्येषु वाक्येषु च का त्वदन्या । ममत्वगर्ते ऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वम्
रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र । दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम्
विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् । विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः
देवि प्रसीद परिपालय नो ऽपरिभीतेर् नित्यं यथासुरवधादधुनैव सद्यः । पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान्
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणी । त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव
वरदाहं सुरगण वरं यन्मनसेच्छथ । तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्
सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्
वैवस्वते ऽन्तरे प्राप्ते अष्टाविंशतिमे युगे । शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ
नन्दगोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले । अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान्