शक्त्या जघान कौमारो वाराही च तथासिना । माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम्
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् । मातः कोपसमाविष्टो रक्तबीजो महासुरः
तस्याहतस्य बहुधा शक्तिशूलादिभिर्बुवि । पपात यो वै रक्तौघस्तेनासञ्छतशो ऽसुराः
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा । उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना
भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् । एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति । भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् । मुखेन काली जगृहे रक्तबीजस्य सोणितम्
ततो ऽसावाजघानाथ गदया तत्र चण्डिकाम् । न चास्या वेदनां चक्रे गदापातो ऽल्पिकामपि
तस्याहतस्य देहात्तु बहु सुस्त्राव शोणितम् । यतस्ततः स्ववक्त्रेण वामुण्डा सम्प्रतीच्छति
मुखे समुद्गता ये ऽस्या रक्तपातान्महासुराः । तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम्
देवी शूलेन चक्रेण बाणैरसिभिरृष्टिभिः । जघान रक्तबीजं तं चामुण्डापीतशोणितम्
स पपात महीपृष्ठे शस्त्रसंहतितो हतः । नीरक्तश्च महीपाल रक्तबीजो महासुरः
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप । तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः
विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चका शुम्भो यत्कर्म निशुम्भश्चातिकोपनः
चकार कोपमतुलं रक्तबीजे निपातिते । शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् । अभ्यधावन्निशुम्भो ऽथ मुख्ययासुरसेनया
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः । संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः
आजगाम महावीर्यः शुम्भो ऽपि स्वबलैर्वृतः । निहन्तुं चण्डिकां कोपात्कृताव युद्धं तु मातृभिः
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः । शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः । ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् । अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् । अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्
छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सो ऽसुरः । तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्
कोपाध्मातो निशुम्भो ऽथ शूलं जग्राह दानवः । आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत्
अथादाय गदां सो ऽपि चिक्षेप चण्डिकां प्रति । सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता
ततः परशुहस्तं तमायान्त दैत्यपुङ्गवम् । आहत्य देवी बाणौघैरपातयत भूतले
तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे । भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम्
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः । भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः