तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः । महामाया हरेश्चैतत्तथा संमोह्यते जगत्
ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति
तया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी
भगवन् ! का हि सा देवी महामायेति यां भवान् । ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज
यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा । तत् सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् । तथापि तत्समुत्पत्तिर्बहुधा श्रुयतां मम
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः । दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः । विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्
विश्वेश्वरीं जगद्धात्रीं स्थिति-संहारकारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा
त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत् । त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने । तथा संहृतिरूपान्ते जगतो ऽस्य जगन्मये
महाविद्या महामाया महामेधा महास्मृतिः । महामोहा च भवती महादेवी महेश्वरी
प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी । कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा । लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च
खडिगनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाण-भुशुण्डी परिघायुधा
सौम्या सौम्यतराशेष-सौम्येभ्यस्त्वतिसुन्दरी । परापराणां परमा त्वमेव परमेश्वरी
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके । तस्य सर्वस्य या शिक्तिः सा त्वं किं स्तूयते तदा
यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत् । सो ऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः
विष्णुः शरीरग्रहणमहामीशान एव च । कारितास्ते यतो ऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता । मोहयैतौ दुराधर्षावसुरो मधुकैटभौ
प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ
एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ
नेत्रास्यनासिका-बाहु-हृदयेभ्यस्तथोरसः । निर्गम्य दर्शने तस्थौ ब्रह्मणो ऽव्यक्तजन्मनः
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः । एकार्णवे ऽहिशयनात्ततः स ददृशे च तौ