ते ऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः । अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः । ववर्षुरुद्धतामर्षास्तां देवीममरारयः
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् । चिच्छेद लीलयाऽध्मातधनुर्मुक्तैर्महेषुभिः
तस्याग्रतस्तथा काली शूलपातविदारितान् । खट्वाङ्गपोथितांश्चारीन् कुर्वती व्यचरत्तदा
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः । ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी । दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना
ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः । पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः । वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् । नारसिंही चचाराजौ नादापूर्णदिगन्तरा
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः । पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा
इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् । दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः
पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः
युयुधे स गदापाणिपरिन्द्रशक्त्या महासुरः । ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत्
कुलिशेनाहतस्याशु बहु सुस्त्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः । समं मातृबिरत्युग्रशस्त्रपातातिभीषणम्
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा । ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः
वैष्णवी समरे चैनं चक्रेणाभिजघान ह । गदया दाडयामास ऐन्द्री तमसुरेश्वरम्
वेष्णावीचक्रभिन्नस्य रुधिरस्त्रावसम्भवैः । सहस्रशौ जगद्व्याप्तं तत्प्रमाणैर्महासुरैः
शक्त्या जघान कौमारो वाराही च तथासिना । माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम्
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् । मातः कोपसमाविष्टो रक्तबीजो महासुरः
तस्याहतस्य बहुधा शक्तिशूलादिभिर्बुवि । पपात यो वै रक्तौघस्तेनासञ्छतशो ऽसुराः
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा । उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना
भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् । एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति । भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् । मुखेन काली जगृहे रक्तबीजस्य सोणितम्
ततो ऽसावाजघानाथ गदया तत्र चण्डिकाम् । न चास्या वेदनां चक्रे गदापातो ऽल्पिकामपि
तस्याहतस्य देहात्तु बहु सुस्त्राव शोणितम् । यतस्ततः स्ववक्त्रेण वामुण्डा सम्प्रतीच्छति