स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः । देवैः समेतैः समरे निशुम्भेन पराजितैः
शरीरकोशाद्यत्तस्याः पार्वत्या निः सृताम्बिका । कौशिकीति समस्तेषु ततो लोकेषु गीयते
तस्यां विनिर्गतायां तु कृष्णाभूत् सापि पार्वती । कालिकेति समाख्याता हिमाचलकृताश्रया
ततो ऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् । ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः
ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा । काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम्
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् । ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा । सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो । त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे
ऐरावतः समानीतो गजरत्नं पुरन्दरात् । पारिजाततरुश्चायं तथैवोच्चैः श्रवा हयः
विमानं हंससंयुक्तमेतत्तिष्ठति ते ऽङ्गणे । रत्नभूतमिहानीतं यदासीद्वेधसो ऽद्भुतम्
निधिरेष महापद्मः समानीतो धनेश्वरात् । किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम्
छत्रं ते वारुणं गेहे काञ्चनस्त्रावि तिष्ठति । तथायं स्यन्तनवरो यः पुरासीत् प्रजापतेः
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता । पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे
निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः । वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते । स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः । प्रेषयामास सुग्रीवं दूतं देव्या महासुरः
इति चेति च वक्तव्या सा गत्वा वचनान्मम । यथा चाभ्येति संप्रीत्या तथा कार्यं त्वया लघु
स तत्र गत्वा यत्रास्ते शैलोद्देशे ऽतिशोभने । तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा
देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः । दूतो ऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु । निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत्
मम त्रैलोक्यमखिलं मम देवा वशानुगाः । यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक्
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः । तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम्
क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः । उच्चैः श्रवससंज्ञं तत्प्रणिपत्य समर्पितम्
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च । रत्नभूतानि भूतानि तानि मय्येव शोभने
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् । सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम्
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् । भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः
परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् । एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज
इत्युक्ता सा तदा देवी गम्भीरान्तः स्मिता जगौ । दुर्गा भगवती भद्रा ययेदं धार्यते जगत्
सत्यमुक्तत्वया नात्र मिथ्या किञ्चित्त्वयोदितम् । त्रैलोक्याधिपतिः सुम्भो निशुम्भश्चापि तादृशः
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् । श्रूयतामल्पबुद्धित्वात् प्रतिज्ञा या कृता पुरा