खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशो ऽसुराणाम् । यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत्
दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः । वीर्यं च हन्तृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम्
केनोपमा भवतु ते ऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र । चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रये ऽपि
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि ते ऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम्
खड्गशूलगदादीनि यानि चास्त्राणि ते ऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः । अर्चिता जगतां धात्री तथा गन्धानुलेपनैः
भक्त्या समस्तैस्त्रिदशार्दिव्यैर्धूपैस्तु धूपिता । प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्
व्रियतां त्रिदशाः सर्वे यदस्मत्तो ऽभिवाञ्छितम् । ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता
कर्तव्यमपरं यच्च दुष्करं तन्न विद्महे । इत्याकर्ण्ये वचो देव्याः प्रत्यूचुस्ते दिवौकसः
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते । यदयं निहतः शत्रुरस्माकं महिषासुरः
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि । संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने । तस्य वित्तर्धिविभवैर्धनदारादिसम्पदाम् । वृद्धये ऽस्मात्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके
इति प्रसादिता देवैर्जगतोर्ऽथे तथाऽत्मनः । तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा । देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी
पुनश्च गौरीदेहात् सा समुद्भूता यथाभवत् । वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः
रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृणुष्व मयाऽख्यातं यथावत्कथयामि ते
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः । त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात्
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् । कौबेरमथ याम्यं च चक्राते वरुणस्य च
तावेव पवनर्धि च चक्रतुर्वह्निकर्म च । अन्येषाञ्चाधिकारान् स स्वयमेवाधितिष्ठति । ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः । महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम्
तयास्माकं वरो दत्तो यथाऽपत्सु स्मृताखिलाः । भवतां नाशयिष्यामि तत्क्षणात् परमापदः
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् । जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः
नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्
रौद्रायै नमो नित्यायौ गौर्यै धात्र्यै नमो नमः । नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः
द्योत्स्त्रायै चेन्दुरूपिण्यै सुखायै सततं नमः । कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः । दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः । मनो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः