शब्दात्मिका सुविमलर्ग्यजुषां निधानम् उद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री
मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा । श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा
ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् । अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम् उद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः । प्राणान्मुमोच महीषस्तदतीव चित्रं कैर्जोव्यते हि कुपितान्तकदर्शनेन
देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि । विज्ञातमेतदधुनैव यदस्तमेतन् नीतं बलं सुविपुलं महिषासुरस्य
ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना
धर्म्याणि देवि सकलानि सदैव कर्माण्य् अत्यादृतः प्रतिदिनं सुकृती करोति । स्वर्गं प्रयाति च ततो भवतीप्रसादाल् लोकत्रये ऽपि फलदा ननु देवि तेन
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रयदुः खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्ऽऽद्रचित्ता
एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् । संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवि
दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् । लोकान् प्रयान्तु रिपवो ऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि ते ऽतिसाध्वी
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशो ऽसुराणाम् । यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत्
दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः । वीर्यं च हन्तृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम्
केनोपमा भवतु ते ऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र । चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रये ऽपि
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि ते ऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम्
खड्गशूलगदादीनि यानि चास्त्राणि ते ऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः । अर्चिता जगतां धात्री तथा गन्धानुलेपनैः
भक्त्या समस्तैस्त्रिदशार्दिव्यैर्धूपैस्तु धूपिता । प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्
व्रियतां त्रिदशाः सर्वे यदस्मत्तो ऽभिवाञ्छितम् । ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता
कर्तव्यमपरं यच्च दुष्करं तन्न विद्महे । इत्याकर्ण्ये वचो देव्याः प्रत्यूचुस्ते दिवौकसः
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते । यदयं निहतः शत्रुरस्माकं महिषासुरः
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि । संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने । तस्य वित्तर्धिविभवैर्धनदारादिसम्पदाम् । वृद्धये ऽस्मात्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके
इति प्रसादिता देवैर्जगतोर्ऽथे तथाऽत्मनः । तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा । देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी
पुनश्च गौरीदेहात् सा समुद्भूता यथाभवत् । वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः
रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृणुष्व मयाऽख्यातं यथावत्कथयामि ते
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः । त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात्