निश्वसान्मुमुचे यांश्च युध्यमाना रणे ऽम्बिका । त एव सद्यः सम्भूता गणाः शतसहस्रशः
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः । नाशयन्तो ऽसुरगणान् देवीशक्त्युपबृंहिताः
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे । मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः । शड्गादिभिश्च शतशो निजघान महासुरान्
पातयामास चैवान्यान् घण्टास्वनविमोहितान् । असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत्
केचिद् द्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथापरे । विपोथिता निपातेन गदया भुवि शेरते
वेमुश्च केचिद्रुधिरं मुसले भृशं हताः । केचिन्नपातिता भूमौ भिन्नाः शूलेन वक्षसि
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे । शैलानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः
केषाञ्चिद्वाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे । शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः । एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः
छिन्ने ऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः । कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः । कबन्धाश्छिन्नखिरसः खड्ग-शक्त्यृष्टिपाणयः
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा । अगम्या साभवत् तत्र यत्राभूत् स महारणः
शोणितौघा महानद्यः सद्यस्तत्र विसुस्त्रुवुः । मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका । निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम्
स च सिंहो महानादमुत्सृजन् धुतकेसरः । शरीरेभ्यो ऽमरारीणामसूनिव विचिन्वति
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः । यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि
निहन्यमानं तत्सैन्यमवलाक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्
स देवीं शरवर्षेण ववर्ष समरे ऽसुरः । यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः
तस्य च्छित्त्वा ततो देवी लीलयैव शरोत्करान् । जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् । विव्याध चैव गात्रेषु च्छिन्नधन्वानमाशुगैः
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । अभ्यधावत तां देवीं खड्ग-चर्मधरो ऽसुरः
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि । आजघान भुजे सव्ये देवीमप्यतिवेगवान्
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन । ततो जग्राह शूलं स कोपादरुणलोचनः
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः । जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात्
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत । तच्छूलं शतधा तेन नीतं स च महासुरः
हते तस्मिन् महावीर्ये महिषस्य चमूपतौ । आजगाम गजारूढश्चामरस्त्रिदशार्दनः
सो ऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् । हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम्
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः । चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत्
ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः । बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा