गजवाजिसहस्रौघैरनेकैरुग्रदर्शनः । वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत
बिडालाक्षो ऽयुतानाञ्च पञ्चाशद्भिरथायुतैः । युयुधे संयुगे तत्र रथानां परिवारितः
वृतः कालो रथानाञ्च रणे पञ्चाशतायुतैः । युयुधे संयुगे तत्र तावद्भिः परिवारितः
अन्ये च तत्रायुतशो रथनागहयैर्वृताः । युयुधुः संयुगे देव्या सह तत्र महासुराः
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा । हयानाञ्च वृतो युद्धे तत्राभून्महिषासुरः
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा । युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे । देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका । लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः । मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी
सो ऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी । चचारासुरसैन्येषु वनेष्विव हुताशनः
निश्वसान्मुमुचे यांश्च युध्यमाना रणे ऽम्बिका । त एव सद्यः सम्भूता गणाः शतसहस्रशः
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः । नाशयन्तो ऽसुरगणान् देवीशक्त्युपबृंहिताः
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे । मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः । शड्गादिभिश्च शतशो निजघान महासुरान्
पातयामास चैवान्यान् घण्टास्वनविमोहितान् । असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत्
केचिद् द्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथापरे । विपोथिता निपातेन गदया भुवि शेरते
वेमुश्च केचिद्रुधिरं मुसले भृशं हताः । केचिन्नपातिता भूमौ भिन्नाः शूलेन वक्षसि
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे । शैलानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः
केषाञ्चिद्वाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे । शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः । एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः
छिन्ने ऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः । कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः । कबन्धाश्छिन्नखिरसः खड्ग-शक्त्यृष्टिपाणयः
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा । अगम्या साभवत् तत्र यत्राभूत् स महारणः
शोणितौघा महानद्यः सद्यस्तत्र विसुस्त्रुवुः । मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका । निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम्
स च सिंहो महानादमुत्सृजन् धुतकेसरः । शरीरेभ्यो ऽमरारीणामसूनिव विचिन्वति
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः । यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि
निहन्यमानं तत्सैन्यमवलाक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्
स देवीं शरवर्षेण ववर्ष समरे ऽसुरः । यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः
तस्य च्छित्त्वा ततो देवी लीलयैव शरोत्करान् । जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्