कालदण्डाद्यमो दण्डं माशं चाम्बुपतिर्ददौ । प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम्
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः । कालख्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम्
क्षीरोदश्चामलं हारमजरे च तथाम्बरे । चूडामणिं तथा दिव्यं कुण्डले कटकानि च
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु । नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् । अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च
विश्वकर्मा ददौ तस्यै परशुञ्चातिनिर्मलम् । अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम्
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् । अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्
हिमवान् वाहनं सिंहं रत्नानि विविधानि च । ददावशून्यं सुरया पानपात्रं धनाधिपः
शेषश्च सर्वनागेशो महामणिविभूषितम् । नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा । संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः
तस्या नादेन घोरेण कृत्स्त्रमापूरितं नभः । अमायतातिमहता प्रतिशब्दो महानभूत्
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे । चचाल वसुधा चेलुः सकलाश्च महीधराः
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् । तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः । सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः
आः किमेतदिति क्रोधादाभाष्य महिषासुरः । अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा । पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्
क्षोभिताशेषपातालां धनुर्ज्यानिः स्वनेन ताम् । दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम्
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् । शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम्
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः । युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः । अयुध्यतायुतानाञ्च सहस्रेण महाहनुः
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः । अयुतानां शतैः षड्भिर्वाष्कलो युयुधे रणे
गजवाजिसहस्रौघैरनेकैरुग्रदर्शनः । वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत
बिडालाक्षो ऽयुतानाञ्च पञ्चाशद्भिरथायुतैः । युयुधे संयुगे तत्र रथानां परिवारितः
वृतः कालो रथानाञ्च रणे पञ्चाशतायुतैः । युयुधे संयुगे तत्र तावद्भिः परिवारितः
अन्ये च तत्रायुतशो रथनागहयैर्वृताः । युयुधुः संयुगे देव्या सह तत्र महासुराः
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा । हयानाञ्च वृतो युद्धे तत्राभून्महिषासुरः
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा । युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे । देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका । लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः । मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी
सो ऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी । चचारासुरसैन्येषु वनेष्विव हुताशनः