सो ऽचिन्तयत् तदा तत्र ममत्वाकृष्टचेतनः । मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् । मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा
न जाने स प्रधानो मे शूरहस्ती सदामदः । मम वैरिवशं यातः कान् भोगानुपलप्स्यते
ये ममानुगता नित्यं प्रसादधनभोजनैः । अनुवृत्तिं ध्रुवं ते ऽद्य कुर्वन्त्यन्यमहीभृताम्
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् । संचितः सो ऽतिदुः खेन क्षयं कोशो गमिष्यति
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः । तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः
स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमने ऽत्र कः । सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् । प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्
समाधिर्नाम वैश्यो ऽहमुत्पन्नो धनिनां कुले । पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् । वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः
सो ऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् । प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् । कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः । तेषु किं भवतः स्नेहमनुबध्नाति मानसम्
एवमेतद्यथा प्राह भवानस्मद्गतं वचः । किं करोमि न बध्नाति मम निष्ठुरतां मनः
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः । पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः
किमेतन्नाभिजानामि जानन्नपि महामते । यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु
तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते । करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ । समाधिर्नाम वैश्यो ऽसौ स च पार्थिवसत्तमः
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् । उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्य-पार्थिवौ
भगवंस्त्वामहं प्रष्टुमिच्चाम्येकं वदस्व तत् । दुः खाय यन्मे मनसः स्वचित्तायत्ततां विना
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतो ऽपि यथाज्ञस्य किमेतन्मुनिसत्तम
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः । स्वजनेन च सन्त्यक्तस्तेषु हार्दे तथाप्यति
एवमेष तथाहं च द्वावप्यत्यन्तदुः खितौ । दृष्टदोषे ऽपि विषये ममत्वाकृष्टमानसौ
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि । ममास्य च भवत्येषा विवेकान्धस्य मूढता
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे । विषयश्च महाभाग याति चैवं पृथक् पृथक्
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे । केचिद् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः
ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् । यतो हि ज्ञानिनः सर्वे पशु-पक्षि-मृगादयः
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगृपक्षिणाम् । मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः
ज्ञाने ऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु । कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति । लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि
तथापि ममतावर्ते मोहगर्ते निपातिताः । महामायाप्रभावेण संसारस्थितिकारिणा