सावर्णिः सूर्यतनयो यो मनुः कथ्यते ऽष्टमः । निशामय तदुत्पत्तिं विस्तराद् गदतो मम
महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः
स्वारोचिषे ऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः
ततः स्वपुरमायातो निजदेशाधिपो ऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः । कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः
ततो मृगयाव्याजेन हृतस्वाम्यः स भुपतिः । एकाकी हयमारुह्य जगाम गहनं वनम्
स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः । प्रशान्तश्वापदाकीर्णं मुनिश्ष्योपशोभितम्
तस्थौ कञ्चित् स कालञ्च मुनिना तेन सत्कृतः । इतश्चैतश्च विचरंस्तस्मिन् मुनिवराश्रमे
सो ऽचिन्तयत् तदा तत्र ममत्वाकृष्टचेतनः । मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् । मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा
न जाने स प्रधानो मे शूरहस्ती सदामदः । मम वैरिवशं यातः कान् भोगानुपलप्स्यते
ये ममानुगता नित्यं प्रसादधनभोजनैः । अनुवृत्तिं ध्रुवं ते ऽद्य कुर्वन्त्यन्यमहीभृताम्
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् । संचितः सो ऽतिदुः खेन क्षयं कोशो गमिष्यति
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः । तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः
स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमने ऽत्र कः । सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् । प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्
समाधिर्नाम वैश्यो ऽहमुत्पन्नो धनिनां कुले । पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् । वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः
सो ऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् । प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् । कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः । तेषु किं भवतः स्नेहमनुबध्नाति मानसम्
एवमेतद्यथा प्राह भवानस्मद्गतं वचः । किं करोमि न बध्नाति मम निष्ठुरतां मनः
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः । पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः
किमेतन्नाभिजानामि जानन्नपि महामते । यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु
तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते । करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ । समाधिर्नाम वैश्यो ऽसौ स च पार्थिवसत्तमः
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् । उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्य-पार्थिवौ
भगवंस्त्वामहं प्रष्टुमिच्चाम्येकं वदस्व तत् । दुः खाय यन्मे मनसः स्वचित्तायत्ततां विना
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतो ऽपि यथाज्ञस्य किमेतन्मुनिसत्तम