गुरुचरणाम्बुज निर्भर भकतः संसारादचिराद्भव मुक्तः । सेन्द्रियमानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम्
मूढः कश्चन वैयाकरणो डुकृञ्करणाध्ययन धुरिणः । श्रीमच्छम्कर भगवच्छिष्यै बोधित आसिच्छोधितकरणः
भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते । नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे