भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते । संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम्। यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम्
नारीस्तनभर नाभीदेशं दृष्ट्वा मागामोहावेशम् । एतन्मांसावसादि विकारं मनसि विचिन्तय वारं वारम्
नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम्
यावद्वित्तोपार्जन सक्तः स्तावन्निज परिवारो रक्तः । पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे
यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये
बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परे ब्रह्मणि कोऽपि न सक्तः
काते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः
सत्सङ्गत्वे निस्स्ङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः
वयसिगते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणेवित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः
मा कुरु धन जन यौवन गर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा
दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः
द्वादशमञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः । उपदेशो भूद्विद्यानिपुणैः श्रीमच्छन्करभगवच्छरणैः ॥ १२अ ॥ काते कान्ता धन गतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसं गतिरैका भवति भवार्णवतरणे नौका
जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि चन पश्यति मूढः उदरनिमित्तं बहुकृतवेषः
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जतं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम्
अग्रे वह्निः पृष्ठेभानुः रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षस्तरुतलवासः तदपि न मुञ्चत्याशापाशः
कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहिनः सर्वमतेन मुक्तिं न भजति जन्मशतेन
सुर मंदिर तरु मूल निवासः शय्या भूतल मजिनं वासः । सर्व परिग्रह भोग त्यागः कस्य सुखं न करोति विरागः
योगरतो वाभोगरतोवा सङ्गरतो वा सङ्गवीहिनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव
भगवद् गीता किञ्चिदधीता गङ्गा जललव कणिकापीता । सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा
पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे
रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः । योगी योगनियोजित चित्तो रमते बालोन्मत्तवदेव
कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्न विचारम्
त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम्
शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम्
कामं क्रोधं लोभं मोहं त्यक्त्वाऽत्मानं भावय कोऽहम् । आत्मज्ञान विहीना मूढाः ते पच्यन्ते नरकनिगूढाः
गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम् । नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम्
सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम्
अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् । पुत्रादपि धन भाजां भीतिः सर्वत्रैषा विहिआ रीतिः
प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् । जाप्यसमेत समाधिविधानं कुर्ववधानं महदवधानम्