दीक्षायै रूपꣳ शष्पाणि प्रायणीयस्य तोक्मानि । क्रयस्य रूपꣳ सोमस्य लाजाः सोमाꣳशवो मधु
आतिथ्यरूपं मासरं महावीरस्य नग्नहुः । रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता
सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते । अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रꣳ सरस्वत्या
आसन्दी रूपꣳ राजासन्द्यै वेद्यै कुम्भी सुराधानी । अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक्
वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् । यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना
क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि । मा त्वा हिꣳसीन् मा मा हिꣳसीः
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ । साम्राज्याय सुक्रतुः । मृत्योः पाहि । विद्योत् पाहि
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि । सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि । इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि
को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा । सुश्लोक सुमङ्गल सत्यराजन्
शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि । राजा मे प्राणो ऽ अमृतꣳ सम्राट् चक्षुर् विराट् श्रोत्रम्
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः । मोदाः प्रमोदा ऽ अङ्गुलीर् अङ्गानि मित्रं मे सहः
बाहू मे बलम् इन्द्रियꣳ हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रम् उरो मम
पृष्टीर् मे राष्ट्रम् उदरम् अꣳसौ ग्रीवाश् च श्रोणी । ऊरू ऽ अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः
नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् । आनन्दनन्दाव् आण्डौ मे भगः सौभाग्यं पसः । जङ्घाभ्यां पद्भ्यां धर्मो ऽस्मि विशि राजा प्रतिष्ठितः
प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्य् अश्वेषु प्रति तिष्ठामि गोषु । प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन् प्रति प्राणेषु क्षत्रे प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि
त्रया देवा ऽ एकादश त्रयस्त्रिꣳशाः सुराधसः । बृहस्पतिपुरोहिता देवस्य सवितुः सवे । देवा देवैर् अवन्तु मा
प्रथमा द्वितीयैर् द्वितीयास् तृतीयैस् तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर् यजूꣳषि सामभिः सामान्य् ऋग्भिर् ऋचः पुरोनुऽवाक्याभिः पुरोऽनुवाक्या याज्याभिर् याज्या वषट्कारैर् वषट्कारा ऽ आहुतिभिर् आहुतयो मे कामान्त् सम् अर्धयन्तु भूः स्वाहा
लोमानि प्रयतिर् मम त्वङ् म ऽ आनतिर् आगतिः । माꣳसं म ऽ उपनतिर् वस्व् अस्थि मज्जा म ऽ आनतिः
यद् देवा देवहेडनं देवासश् चकृमा वयम् । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः
यदि दिवा यदि नक्तम् एनाꣳसि चकृमा वयम् । वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः
यदि जाग्रद् यदि स्वप्न ऽ एनाꣳसि चकृमा वयम् । सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच्छूद्रे यद् अर्ये यद् एनश् चकृमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असि
यद् आपो ऽ अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च । अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः । अव देवैर् देवकृतम् एनो ऽयक्ष्य् अव मर्त्यैर् मर्त्यकृतम् । पुरुराव्णो देव रिषस् पाहि
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः । सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः
द्रुपदाद् इव मुमुचानः स्विन्नः स्नातो मलाद् इव । पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनसः
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
अपो ऽ अद्यान्व् अचारिषꣳ रसेन सम् असृक्ष्महि । पयस्वान् अग्न ऽ आगमं तं मा सꣳ सृज वर्चसा प्रजया च धनेन च
एधोऽस्य् एधिषीमहि । समिद् असि तेजो ऽसि तेजो मयि धेहि । समाववर्ति पृथिवी सम् उषाः सम् उ सूर्यः । सम् उ विश्वम् इदं जगत् । वैश्वानरज्योतिर् भूयासं विभून् कामान् व्यश्नवै भूः स्वाहा
अभ्यादधामि समिधम् अग्ने व्रतपते त्वयि । व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम्
यत्र ब्रह्म च क्षत्रं च सम्यञ्चो चरतः सह । तं लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना