सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् । अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ
वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो ऽ अस्माꣳऽ अभिदासत्य् अधरं गमया तमः
मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः । सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः । अग्निर् नः सुष्टुतीर् उप
पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम्
अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिꣳ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते
वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने
धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः । सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः । रक्षा तोकम् उत त्मना
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन । मधुमतीं मधुमता सृजामि सꣳ सोमेन । सोमोऽसि । अश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व
परीतो षिञ्चता सुतꣳ सोमो य ऽ उत्तमꣳ हविः । दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः
वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः । इन्द्रस्य युज्यः सखा । वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः । इन्द्रस्य युज्यः सखा
पुनाति ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना
ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियꣳ सुरया सोमः सुत ऽ आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति । उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे । ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा
उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् । एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा
तेजो ऽसि तेजो मयि धेहि । वीर्यम् असि वीर्यं मयि धेहि । बलम् असि बलं मयि धेहि । ओजो ऽस्य् ओजो मयि धेहि । मन्युर् असि मन्युं मयि धेहि । सहो ऽसि सहो मयि धेहि
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति । श्येनं पतत्रिणꣳ सिꣳहꣳ सेमं पात्व् अꣳहसः
यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् । एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया । सम्पृच स्थ सं मा भद्रेण पृङ्क्त । विपृच स्थ वि मा पाप्मना पृङ्क्त
देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना । वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः
दीक्षायै रूपꣳ शष्पाणि प्रायणीयस्य तोक्मानि । क्रयस्य रूपꣳ सोमस्य लाजाः सोमाꣳशवो मधु
आतिथ्यरूपं मासरं महावीरस्य नग्नहुः । रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता
सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते । अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रꣳ सरस्वत्या
आसन्दी रूपꣳ राजासन्द्यै वेद्यै कुम्भी सुराधानी । अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक्
वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् । यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना
क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि । मा त्वा हिꣳसीन् मा मा हिꣳसीः
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ । साम्राज्याय सुक्रतुः । मृत्योः पाहि । विद्योत् पाहि
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि । सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि । इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि
को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा । सुश्लोक सुमङ्गल सत्यराजन्
शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि । राजा मे प्राणो ऽ अमृतꣳ सम्राट् चक्षुर् विराट् श्रोत्रम्