रुचं नो धेहि ब्राह्मणेषु रुचꣳ राजसु नस् कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम्
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः
स्वर्ण घर्मः स्वाहा । स्वर्णार्कः स्वाहा । स्वर्ण शुक्रः स्वाहा । स्वर्ण ज्योतिः स्वाहा । स्वर्ण सूर्यः स्वाहा
अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् । तेन वयं गमेम ब्रध्नस्य विष्टपꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम्
इमौ ते पक्षाव् अजरौ पतत्रिणौ याभ्याꣳ रक्षाꣳस्य् अपहꣳस्य् अग्ने । ताभ्यां पतेम सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः
इन्दुर् दक्षः श्येन ऽ ऋतावा हिरण्यपक्षः शकुनो भुरण्युः । महान्त् सधस्थे ध्रुव ऽ आ निषत्तो नमस् ते अस्तु मा मा हिꣳसीः
दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् । विश्वायुः शर्म सप्रथा नमस् पथे
विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः समुद्रे ते हृदयम् अप्स्व् आयुर् अपो दत्तोदधिं भिन्त्त । दिवस् पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याव
इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिः । तस्य न ऽ इष्टस्य प्रीतस्य द्रविणेहागमेः
इष्टो ऽ अग्निर् आहुतः पिपर्तु न ऽ इष्टꣳ हविः । स्वगेदं देवेभ्यो नमः
यद् आकूतात् समसुस्रोद् हृदो वा मनसो वा सम्भृतं चक्षुषो वा । तद् अनु प्रेत सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः
एतꣳ सधस्थ परि ते ददामि यम् आवहाच् शेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर् वो ऽ अत्र तꣳ स्म जानीत परमे व्योमन्
एतं जानाथ परमे व्योमन् देवाः सधस्था विद रूपम् अस्य । यद् आगच्छात् पथिभिर् देवयानैर् इष्टापूर्ते कृणवाथाविर् अस्मै
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च । अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥ 18. 63 प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो नय स्वर् देवेषु गन्तवे
यद् दत्तं यत् परादानं यत् पूर्तं याश् च दक्षिणाः । तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत्
यत्र धारा ऽ अनपेता मधोर् घृतस्य च याः । तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत्
अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म ऽ आसन् । अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम
ऋचो नामास्मि यजूꣳषि नामास्मि सामानि नामास्मि । ये ऽ अग्नयः प्राञ्चजन्या ऽ अस्यां पृथिव्याम् अधि । तेषाम् असि त्वम् उत्तमः प्र नो जीवतवे सुव
वार्त्रहत्याय शवसे पृतनाषाह्याय च । इन्द्र त्वा वर्तयामसि
सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् । अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ
वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो ऽ अस्माꣳऽ अभिदासत्य् अधरं गमया तमः
मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः । सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः । अग्निर् नः सुष्टुतीर् उप
पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम्
अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिꣳ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते
वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने
धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः । सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः । रक्षा तोकम् उत त्मना
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन । मधुमतीं मधुमता सृजामि सꣳ सोमेन । सोमोऽसि । अश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व