पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम्
अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम्
आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम्
स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम्
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम्
व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम्
एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविꣳशतिश् च म ऽ एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च मे नवविꣳशतिश् च म ऽ एकत्रिꣳशच् च म ऽ एकत्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे यज्ञेन कल्पन्ताम्
चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विꣳशतिश् च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे यज्ञेन कल्पन्ताम्
त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम्
पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाꣳश् च मे धेनुश् च मे यज्ञेन कल्पन्ताम्
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा ऽहर्पतये स्वाहाह्ने स्वाहा मुग्धाय स्वाहा मुग्धाय वैनꣳशिनाय स्वाहा विनꣳशिन ऽ आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा । इयं ते राण् मित्राय यन्तासि यमन ऽ ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय
आयुर् यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनो यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर् यज्ञेन कल्पताꣳ स्वर् यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । स्तोमश् च यजुश् च ऽ ऋक् च साम च बृहच् च रथन्तरं च । स्वर् देवा ऽ अगन्मामृता ऽ अभूम प्रजापतेः प्रजा ऽ अभूम वेट् स्वाहा
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत्
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः । वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु
वाजो नो ऽ अद्य प्र सुवाति दानं वाजो देवाꣳऽ ऋतुभिः कल्पयाति । वाजो हि मा सर्ववीरं जजान विश्वा ऽ आशा वाजपतिर् जयेयम्
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् हविषा वर्धयाति । वाजो हि मा सर्ववीरं चकार सर्वा ऽ आशा वाजपतिर् भवेयम्
सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः । सो ऽहं वाजꣳ सनेयम् अग्ने
पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम्
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्येनाभि षिञ्चामि
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौऽषधयोप्सरसो मुदो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा
सꣳहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा
सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो भेकुरयो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽ अप्सरस ऽ ऊर्जो नाम । स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा ऽ अप्सरस स्तावा नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा
प्रजापतिर् विश्वकर्मा मनो गन्धर्वस् तस्य ऽ ऋक्सामान्य् अप्सरस ऽ एष्टयो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा
स नो भुवनस्य पते प्रजापते यस्य त ऽ उपरि गृहा यस्य वेह । अस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा । मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा । अवस्यूर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः । ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते