तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः । स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात्
इडऽ एह्य् अदित ऽ एहि । काम्या ऽ एत । मयि वः कामधरणं भूयात्
सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य ऽ औशिजः
यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः । स नः सिषक्तु यस् तुरः
मा नः शꣳसोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य । रक्षा णो ब्रह्मणस्पते
महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य
नहि तेषाम् अमा चन नाध्वसु वारणेषु । ईशे रिपुर् अघशꣳसः
ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय । ज्योतिर् यच्छन्त्य् अजस्रम्
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत्
परि ते दूडभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुषः
भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याꣳ सुवीरो वीरैः सुपोषः पोषैः । नर्य प्रजां मे पाहि । शꣳस्य पशून् मे पाहि । अथर्य पितुं मे पाहि
आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् । अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व
अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व
अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः । अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व
गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि । ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः । गृहान् उप ह्वयामहे ते नो जानन्तु जानतः
उपहूताऽ इह गावऽ उपहूताऽ अजावयः । अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः । क्षेमाय वः शान्त्यै प्र पद्ये शिवꣳ शग्मꣳ शंयोः शंयोः
एदम् अगन्म देवयजनं पृथिव्या यत्र देवासो ऽ अजुषन्त विश्वे । इमा ऽ आपः शम् उ मे सन्तु देवीः । ओषधे त्रायस्व । ऋक् सामाभ्या संतरन्तो यजुर्भी रायस् पोषेण सम् इषा मदेम । स्वधिते मैनꣳ हिꣳसीः
आपो ऽ अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वꣳ हि रिप्रं प्रवहन्ति देवीः । उद् इदाभ्यः शुचिर् आ पूत ऽ एमि । दीक्षातपसोस् तनूर् असि तं त्वा शिवाꣳ शग्मां परि दधे भद्रं वर्णं पुष्यन्
महीनां पयो सि वर्चोदा ऽ असि वर्चो मे देहि । वृत्रस्यासि कनीनकश् चक्षुर्दा ऽ असि चक्षुर् मे देहि
चित्पतिर् मा पुनातु । वाक्पतिर् मा पुनातु । देवो मा सविता पुनात्व् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच् छकेयम्
आ वो देवास ऽ ईमहे वामं प्रयत्य् अध्वरे । आ वो देवास आशिषो ऽ यज्ञियासो हवामहे
स्वाहा यज्ञं मनसः । स्वाहोरोर् अन्तरिक्षात् । स्वाहा द्यावापृथिवीभ्याम् । स्वाहा वाताद् आ रभे स्वाहा
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी ऽ उरो ऽ अन्तरिक्ष । बृहस्पतये हविषा विधेम स्वाहा
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा
ऋक्सामयोः शिल्पे स्थः ते वाम् आ रभे ते मा पातमास्य यज्ञस्योदृचः । शर्मासि शर्म मे यच्छ नमस् ते ऽ अस्तु मा मा हिꣳसीः
ऊर्ग् अस्य् आङ्गिरस्यूर्णम्रदा ऽ ऊर्जं मयि धेहि । सोमस्य नीविर् असि । विष्णोः शर्मासि शर्म यजमानस्य । इन्द्रस्य योनिर् असि । सुसस्याः कृषीस् कृधि । उच् छ्रयस्व वनस्पत ऽऊर्ध्वो मा पाह्य् अꣳहसऽ आस्य यज्ञस्योदृचः
व्रतं कृणुताग्निर् ब्रह्माग्निर् यज्ञो वनस्पतिर् यज्ञियः । दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये वर्चोधां यज्ञवाहसꣳ सुतीर्था नो ऽअसद् वशे । ये देवा मनोजाता मनोयुजो दक्षक्रतवस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा
श्वात्राः पीता भवत यूयम् आपो ऽअस्माकम् अन्तर् उदरे सुशेवाः । ता ऽअस्मभ्यम् अयक्ष्माऽ अनमीवा ऽअनागसः स्वदन्तु देवीर् अमृता ऽ ऋतावृधः