कन्या ऽइव वहतुम् एतवा ऽ उ ऽ अञ्ज्य् अञ्जाना ऽ अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा ऽ अभि तत् पवन्ते
अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते
धामन् ते विश्वं भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्यन्तर् आयुषि । अपाम् अनीके समिथे य ऽ आभृतस् तम् अश्याम मधुमन्तं त ऽ ऊर्मिम्
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रवश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे यज्ञेन कल्पन्ताम्
प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च म ऽ आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च मे यज्ञेन कल्पन्ताम्
ओजस् च मे सहश् च म ऽ आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थीनि च मे परूꣳषि च मे शरीराणि च म ऽ आयुश् च मे जरा च मे यज्ञेन कल्पन्ताम्
ज्यैष्ठ्यं च मे ऽ आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश् च मे यज्ञेन कल्पन्ताम्
सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे विश्वं च मे महश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम्
ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे यज्ञेन कल्पन्ताम्
यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च मे यज्ञेन कल्पन्ताम्
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च मे यज्ञेन कल्पन्ताम्
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म ऽ औद्भिद्यं च मे यज्ञेन कल्पन्ताम्
रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितं च मे ऽन्नं च मे ऽक्षुच् च मे यज्ञेन कल्पन्ताम्
वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथ्यं च म ऽ ऋद्धं च म ऽ ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे यज्ञेन कल्पन्ताम्
व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम्
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम्
अग्निश् च म ऽ आपश् च मे वीरुधश् च म ऽ ओषधयश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव ऽ आरण्याश् च मे वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे यज्ञेन कल्पन्ताम्
वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म ऽ एमश् च म ऽ इत्या च मे गतिश् च मे यज्ञेन कल्पन्ताम्
अग्निश् च म ऽ इन्द्रश् च मे सोमश् च म ऽ इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म ऽ इन्द्रश् च मे पूषा च म ऽ इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे यज्ञेन कल्पन्ताम्
मित्रश् च म ऽ इन्द्रश् च मे वरुणश् च म ऽ इन्द्रश् च मे धाता च म ऽ इन्द्रश् च मे त्वष्टा च म ऽ इन्द्रश् च मे मरुतश् च म ऽ इन्द्रश् च मे विश्वे च मे देवा ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम्
पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम्
अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम्
आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम्
स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम्
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम्
व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम्
एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविꣳशतिश् च म ऽ एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च मे नवविꣳशतिश् च म ऽ एकत्रिꣳशच् च म ऽ एकत्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे यज्ञेन कल्पन्ताम्
चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विꣳशतिश् च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे यज्ञेन कल्पन्ताम्
त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम्
पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाꣳश् च मे धेनुश् च मे यज्ञेन कल्पन्ताम्