पृथिव्या ऽ अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम्
स्वर् यन्तो नापेक्षन्त ऽ आ द्याꣳ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारꣳ सुविद्वाꣳसो वितेनिरे
अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची । द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः
अग्ने सहस्राक्ष शतमूर्धञ् छतं ते प्राणाः सहस्रं व्यानाः । त्वꣳ साहस्रस्य राय ऽ ईशिषे तस्मै ते विधेम वाजाय स्वाहा
सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद । भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश ऽ उद् दृꣳह
आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने योनिम् आ सीद साधुया । अस्मिन्त्सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत
तꣳ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् । याम् अस्य कण्वो अदुहत् प्रपीनाꣳ सहस्रधारां पयसा महीं गाम्
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । यस्माद् योनेर् उदारिथा यजे तं प्र त्वे हवीꣳषि जुहुरे समिद्धे
प्रेद्धो ऽ अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त ऽ उप यन्ति वाजाः
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ऽ ओहैः
चित्तिं जुहोमि मनसा घृतेन यथा देवा ऽ इहागमन् वीतिहोत्रा ऽ ऋतावृधः । पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यꣳ हवि
सप्त ते ऽ अग्ने समिधः सप्त जिह्वाः सप्त ऽ ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्व घृतेन स्वाहा
शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च । शुक्रश् च ऽ ऋतपाश् चात्यꣳहाः
ईदृङ् चान्यदृङ् च सदृङ् च प्रतिसदृङ् च । मितश् च संमितश् च सभराः
ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च । धर्ता च विधर्ता च विधारयः
ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् च । अन्तिमित्रश् च दूरेऽअमित्रश् च गणः
ईदृक्षास ऽ एतादृक्षास ऽ ऊ षु णः सदृक्षासः प्रतिसदृक्षास ऽ एतन । मितासश् च संमितासो नो ऽ अद्य सभरसो मरुतो यज्ञे ऽ अस्मिन्
स्वतवाꣳश् च प्रघासी च सांतपनश् च गृहमेधी च । क्रीडी च शाकी चोज्जेषी
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च । सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा । इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् । एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु
इमꣳ स्तनमूर्जस्वन्तं धयापां प्रपीनम् अग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तम् अर्वन्त् समुद्रियꣳ सदनम् आ विशस्व
घृतं मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम । अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्
समुद्राद् ऊर्मिर् मधुमाꣳऽ उद् आरद् उपाꣳशुना सम् अमृतत्वम् आनट् । घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः
वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत्
चत्वारि शृङ्गा त्रयो ऽ अस्य पादा द्वे शीर्षे सप्त हस्तासो ऽ अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ ऽ आ विवेश
त्रिधा हितं पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् । इन्द्र ऽ एकꣳ सूर्य ऽ एकं जजान वेनाद् एकꣳ स्वधया निष्टतक्षुः
एता ऽअर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्य ऽ आसाम्
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः । एते ऽ अर्षन्त्य् ऊर्मयो घृतस्य मृगा ऽइव क्षिपणोर् ईषमाणाः
सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा ऽ अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो ऽ अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः