बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽ उग्रः । अभिवीरो ऽ अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित्
गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमꣳ सजाता ऽ अनु वीरयध्वम् इन्द्रꣳ सखायो ऽ अनु सꣳ रभध्वम्
अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकꣳ सेना अवतु प्र युत्सु
इन्द्र ऽ आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर ऽ एतु सोमः । देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्त्व् अग्रम्
इन्द्रस्य वृष्णो वरुणस्य राज्ञ ऽ आदित्यानां मरुताꣳ शर्ध ऽ उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात्
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनां मामकानां मनाꣳसि । उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या ऽ इषवस् ता जयन्तु । अस्माकं वीरा ऽ उत्तरे भवन्त्व् अस्माꣳऽ उ देवा ऽ अवता हवेषु
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि । अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम्
अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिते । गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः
प्रेता जयता नर ऽ इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ
असौ या सेना मरुतः परेषाम् अभ्येति न ऽ ओजसा स्पर्धमाना । तां गूहत तमसापव्रतेन यथामी ऽ अन्यो ऽ अन्यं न जानन्
यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव । तन्न ऽ इन्द्रो बृहस्पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु
मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु
उद् एनम् उत्तरां नयाग्ने घृतेनाहुत । रायस्पोषेण सꣳ सृज प्रजया च बहुं कृधि
इन्द्रेमं प्रतरां नय सजातानाम् असद्वशी । सम् एनं वर्चसा सृज देवानां भागदा ऽ असत्
यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् । तस्मै देवा ऽ अधि ब्रुवन्न् अयं च ब्रह्मणस्पतिः
उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः । स नो बह्व शिवस् त्वꣳ सुप्रतीको विभावसुः
पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः । रायस्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे ऽ अधि यज्ञो ऽ अस्थात्
समिद्धे ऽ अग्नाव् अधि मामहान ऽ उक्थपत्र ऽ ईड्यो गृभीतः । तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अयजन्त देवाः
दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः । परिगृह्य देवा यज्ञम् आयन् देवा देवेभ्यो ऽ अध्वर्यन्तो ऽ अस्थुः
वीतꣳ हविः शमितꣳ शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यम् एति । ततो वाका ऽ आशिषो नो जुषन्ताम्
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाꣳऽ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः
विमान ऽ एष दिवो मध्य ऽ आस्त ऽ आपप्रिवान् रोदसी ऽ अन्तरिक्षम् । स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम्
उक्षा समुद्रो ऽ अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आ विवेश । मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ
इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
देवहूर् यज्ञ ऽ आ च वक्षत् सुम्नहूर् यज्ञ ऽ आ च वक्षत् । यक्षद् अग्निर् देवो देवाꣳऽ आ च वक्षत्
वाजस्य मा प्रसव ऽ उद्ग्राभेणोद् अग्रभीत् । अध सपत्नान् इन्द्रो मे निग्राभेणाधराꣳऽ अकः
उद्ग्राभं च निग्राभं च ब्रह्म देवा ऽ अवीवृधन् । अधा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम्
क्रमध्वम् अग्निना नाकम् उख्यꣳ हस्तेषु बिभ्रतः । दिवस् पृष्ठꣳ स्वर् गत्वा मिश्रा देवेभिर् आध्वम्
प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो ऽ अग्निर् भवेह । विश्वा ऽ आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे