अपाम् इदं न्ययनꣳ समुद्रस्य निवेशनम् । अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च
स नः पावक दीदिवो ग्ने देवाꣳ ऽ इहा वह । उप यज्ञꣳ हविश् च नः
पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच ऽ उषसो न भानुना । तूर्वन् न यामन्न् एतशस्य नू रण ऽ आ यो घृणे न ततृषाणो ऽ अजरः
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे । अन्याꣳस् ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव
नृषदे वेट् । अप्सुषदे वेट् । बर्हिषदे वेट् । वनसदे वेट् । स्वर्विदे वेट्
ये देवा देवानां यज्ञिया यज्ञियानाꣳ संवत्सरीणम् उप भागम् आसते । अहुतादो हविषो यज्ञे ऽ अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य
ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो ऽ अस्य । येभ्यो न ऽ ऋते पवते धाम किं चन न ते दिवो न पृथिव्या ऽ अधि स्नुषु
प्राणदा ऽ अपानदा व्यानदा वर्चोदा वरिवोदाः । अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव
अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् । अग्निर् नो वनते रयिम्
य ऽ इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः । स ऽ आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराꣳ ऽ आ विवेश
किꣳ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् । यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव ऽ एकः
किꣳ स्विद् वनं क ऽ उ स वृक्ष ऽ आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन्
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् । मुह्यन्त्व् अन्ये ऽ अभितो सपत्ना ऽ इहास्माकं मघवा सूरिर् अस्तु
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम । स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत्
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने । यदेद् अन्ता ऽ अददृहन्त पूर्व ऽ आद् इद् द्यावापृथिवी ऽ अप्रथेताम्
विश्वकर्मा विमना ऽ आद् विहाया धाता विधाता परमोत संदृक् । तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर ऽ एकम् आहुः
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा ऽ एक ऽ एव तꣳ संप्रश्नं भुवना यन्त्य् अन्या
त ऽ आयजन्त द्रविणꣳ सम् अस्मा ऽ ऋषयः पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि
परो दिवा पर ऽ एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति । कꣳ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त पूर्वे
तम् इद् गर्भं प्रथमं दध्र ऽ आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः
न तं विदाथ य ऽ इमा जजानान्यद् युष्माकम् अन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप ऽ उक्थशासश् चरन्ति
विश्वकर्मा ह्य् अजनिष्ट देव ऽ आद् इद् गन्धर्वो ऽ अभवद् द्वितीयः । तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधात् पुरुत्रा
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । संक्रन्दनोऽनिमिष ऽ एकवीरः शतꣳ सेना ऽ अजयत् साकम् इन्द्रः
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा
स ऽ इषुहस्तैः स निषङ्गिभिर् वशी सꣳस्रष्टा स युध ऽ इन्द्रो गणेन । सꣳसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता
बृहस्पते परि दीया रथेन रक्षोहामित्राँ२ऽ अपबाधमानः । प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम्