नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित । आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत्
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम्
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी । शिवा रुतस्य भेषजी तया नो मृड जीवसे
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड
मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः । यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः । तासाम् ईशानो भगवः पराचीना मुखा कृधि
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः । तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः । तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः । तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः । तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः । तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः । तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् ऽ अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतं पयः । तां न ऽ इषमूर्जं धत्त मरुतः सꣳरराणाः । ऽ अश्मꣳस् ते क्षुत् । मयि त ऊर्क् । यं द्विष्मस् तं ते शुग् ऋच्छतु
इमा मे ऽ अग्न ऽ इष्टका धेनवः सन्त्व् एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदꣳ समुद्रश् च मध्यं चान्तश् च परार्धश् चैता मे ऽ अग्न इष्टका धेनवः सन्त्व् अमुत्रामुष्मिंल् लोके
ऋतव स्थ ऽ ऋतावृध ऽ ऋतुष्ठा स्थ ऽ ऋतावृधः । घृतश्च्युतो मधुश्च्युतो विराजो नाम कामदुघा ऽ अक्षीयमाणाः
समुद्रस्य त्वावकयाग्ने परि व्ययामसि । पावको ऽ अस्मभ्यꣳ शिवो भव
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि । पावको ऽ अस्मभ्यꣳ शिवो भव
उप ज्मन्न् उप वेतसेऽव तर नदीष्व् आ । अग्ने पित्तम् अपाम् असि । मण्डूकि ताभिर् आ गहि सेमं नो यज्ञं पावकवर्णꣳ शिवं कृधि