नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित । आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत्
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम्
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी । शिवा रुतस्य भेषजी तया नो मृड जीवसे
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड
मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः । यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः । तासाम् ईशानो भगवः पराचीना मुखा कृधि
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः । तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि