याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत्
शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत्
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् । अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः । ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् । याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत । अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः । अथो य ऽइषुधिस् तवारे ऽ अस्मिन् नि धेहि तम्
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव
नमस् त ऽ आयुधायानातताय धृष्णवे । उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च