अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः । वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः
येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निꣳ स्वर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम्
तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम
सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् । पुनः कृण्वाना पितरा युवानान्वा ताꣳसीत् त्वयि तन्तुम् एतम्
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम्
तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन्
ता ऽ अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् । आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति
आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाꣳ समुद्रस्य हृदये । रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम्
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृꣳह दिवं मा हिꣳसीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
सहस्रस्य प्रमासि । सहस्रस्य प्रतिमासि । सहस्रस्योन्मासि । साहस्रो ऽसि । सहस्राय त्वा
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः । बाहुभ्याम् उत ते नमः
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी । तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत्
शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत्
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् । अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः । ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् । याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत । अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः । अथो य ऽइषुधिस् तवारे ऽ अस्मिन् नि धेहि तम्