भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः । भद्राऽ उत प्रशस्तयः
भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः
येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते ऽ अभिष्टिभिः
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः । अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषꣳ स्तोतृभ्य ऽ आ भर
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः । सम् अर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय ऽ इषꣳ स्तोतृभ्य ऽ आ भर
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि । उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषꣳ स्तोतृभ्य ऽ आ भर
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ऽ ओहैः
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । रथीर् ऋतस्य बृहतो बभूथ
एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः । अग्ने विश्वेभिः सुमना ऽ अनीकैः
अग्निꣳ होतारं मन्ये दास्वन्तं वसुꣳ सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः
अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः । वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः
येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निꣳ स्वर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम्
तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम
सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् । पुनः कृण्वाना पितरा युवानान्वा ताꣳसीत् त्वयि तन्तुम् एतम्
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम्
तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन्
ता ऽ अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् । आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति
आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाꣳ समुद्रस्य हृदये । रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम्
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृꣳह दिवं मा हिꣳसीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
सहस्रस्य प्रमासि । सहस्रस्य प्रतिमासि । सहस्रस्योन्मासि । साहस्रो ऽसि । सहस्राय त्वा
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः । बाहुभ्याम् उत ते नमः
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी । तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि