आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः । पितरं च प्रयन्त्स्वः
अन्तश् चरति रोचनास्य प्राणाद् अपानती । व्यख्यन् महिषो दिवम्
त्रिꣳशद् धाम वि राजति वाक् पतङ्गाय धीयते । प्रति वस्तोर् अह द्युभिः
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा । सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा । अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा । सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या । जुषाणो ऽअग्निर् वेतु स्वाहा । सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या । जुषाणः सूर्यो वेतु स्वाहा
उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये । आरे ऽ अस्मे च शृण्वते
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् । अपाᳬं रेताᳬंसि जिन्वति
उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै । उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम्
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम्
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे
अस्य प्रत्नाम् अनु द्युतꣳ शुक्रं दुदुह्रे ऽ अह्रयः । पयः सहस्रसाम् ऋषिम्
तनूपा ऽ अग्ने ऽसि तन्वं मे पाहि । आयुर्दा ऽ अग्नेऽ स्य् आयुर् मे देहि । वर्चोदा ऽ अग्ने ऽसि वर्चो मे देहि । अग्ने यन् मे तन्वा ऽ ऊनं तन् मऽ आ पृण
इन्धानास् त्वा शतꣳ हिमा द्युमन्तꣳ सम् इधीमहि । वयस्वन्तो वयस्कृतꣳ सहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भनम् अदब्धासो ऽ अदाभ्यम् । चित्रावसो स्वस्ति ते पारम् अशीय
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाᳬं स्तुतेन । सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सꣳ रायस् पोषेण ग्मिषीय
अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस् पोष स्थ रायस् पोषं वो भक्षीय
रेवती रमध्वम् अस्मिन् योनाव् अस्मिन् गोष्ठे ऽस्मिंल् लोके स्मिन् क्षये । इहैव स्त मापगात
सꣳहितासि विश्वरूप्य् ऊर्जा माविश गौपत्येन । उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् । नमो भरन्त ऽएमसि
राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् । वर्धमाणꣳ स्वे दमे
स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये
अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः । वसुर् अग्निर् वसुश्रवाऽ अच्छानक्षि द्युमत्तमꣳ रयिं दाः
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः । स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात्
इडऽ एह्य् अदित ऽ एहि । काम्या ऽ एत । मयि वः कामधरणं भूयात्
सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य ऽ औशिजः
यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः । स नः सिषक्तु यस् तुरः
मा नः शꣳसोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य । रक्षा णो ब्रह्मणस्पते
महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य
नहि तेषाम् अमा चन नाध्वसु वारणेषु । ईशे रिपुर् अघशꣳसः
ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय । ज्योतिर् यच्छन्त्य् अजस्रम्
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत्