अयम् उत्तरात् संयद्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यौ । विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
अयम् उपर्य् अर्वाग्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ । उर्वशी च पूर्वचित्तिश् चाप्सरसाव् अवस्फूर्जन् हेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् । अपाꣳ रेताꣳसि जिन्वति
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम्
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम्
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् । यह्वा ऽ इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत्
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे
जनस्य गोपा ऽ अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः
त्वाम् अग्ने ऽ अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने । स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः
सखायः सं वः सम्यञ्चम् इषꣳ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते
सꣳ-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य ऽ आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे
एना वो ऽ अग्निं नमसोर्जो नपातम् आ हुवे । प्रियं चेतिष्ठम् अरतिꣳ स्वध्वरं विश्वस्य दूतम् अमृतम्
विश्वस्य दूतम् अमृतं विश्वस्य दूतम् अमृतम् । स योजते ऽ अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः
स दुद्रवत् स्वाहुतः स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम्
अग्ने वाजस्य गोमत ऽ ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः
स ऽ इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा । रेवद् अस्मभ्यं पुर्वणीक दीदिहि
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । स तिग्मजम्भ रक्षसो दह प्रति
भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः । भद्राऽ उत प्रशस्तयः
भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः
येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते ऽ अभिष्टिभिः
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः । अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषꣳ स्तोतृभ्य ऽ आ भर
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः । सम् अर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय ऽ इषꣳ स्तोतृभ्य ऽ आ भर
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि । उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषꣳ स्तोतृभ्य ऽ आ भर
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ऽ ओहैः
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । रथीर् ऋतस्य बृहतो बभूथ
एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः । अग्ने विश्वेभिः सुमना ऽ अनीकैः
अग्निꣳ होतारं मन्ये दास्वन्तं वसुꣳ सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः