पृथिवी छन्दः । ऽअन्तरिक्षं छन्दः । द्यौश् छन्दः । समाश् छन्दः । नक्षत्राणि छन्दः । वाक् छन्दः । मनश् छन्दः । कृषिश् छन्दः । हिरण्यं छन्दः । गौश् छन्दः । ऽअजा छन्दः । ऽअश्वश् छन्दः
अग्निर् देवता । वातो देवता । सूर्यो देवता । चन्द्रमा देवता । वसवो देवता । रुद्रा देवता । ऽऽआदित्या देवता । मरुतो देवता । विश्वे देवा देवता । बृहस्पतिर् देवता । इन्द्रो देवता । वरुणो देवता
मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी । आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा
यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री । इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा । लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
आशुर् त्रिवृत् । भान्तः पञ्चदशः । व्योमा सप्तदशः । धरुण ऽ एकविꣳशः । प्रतूर्तिर् अष्टादशः । तपो नवदशः । ऽअभीवर्तः सविꣳशः । वर्चो द्वाविꣳशः । संभरणस् त्रयोविꣳशः । योनिश् चतुर्विꣳशः । गर्भाः पञ्चविꣳशः । ऽ ओजस् त्रिणवः । क्रतुर् एकत्रिꣳशः । प्रतिष्ठा त्रयस्त्रिꣳशः । ब्रध्नस्य विष्टपं चतुस्त्रिꣳशः । नाकः षट्त्रिꣳशः । विवर्तो ष्टाचत्वारिꣳशः । धर्त्रं चतुष्टोमः
अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः । इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रꣳ स्पृतं पञ्चदशः स्तोमः । नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रꣳ स्पृतꣳ सप्तदशः स्तोमः । मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविꣳश स्तोमः
वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विꣳश स्तोमः । आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविꣳश स्तोमः । अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः । देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यꣳ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः
यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिꣳश स्तोमः । ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतꣳ स्पृतं त्रयस्त्रिꣳश स्तोमः
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् । तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् । पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् । सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत्
नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अध्निपत्न्य् आसीत् । एकादशभिर् अस्तुवत ऽ ऋतवो ऽसृज्यन्तार्तवा ऽ अधिपतय ऽ आसन् । त्रयोदशभिर् अस्तुवत मासा ऽ असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् । पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् । सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत्
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे ऽ अधिपत्नी आस्ताम् । एकविꣳशत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणो ऽधिपतिर् आसीत् । त्रयोविꣳशत्यास्तुवत क्षुद्रां पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् । पञ्चविꣳशत्यास्तुवताऽऽरण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् । सप्तविꣳशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्य् आयꣳस् त ऽ एवाधिपतय ऽ आसन्
नवविꣳशत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमो ऽधिपतिर् आसीत् । एकत्रिꣳशतास्तुवत प्रजा ऽ असृज्यन्त यवाश् चायवाश् चाधिपतय ऽ आसन् । त्रयस्त्रिꣳशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् । [लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
अग्ने जातान् प्र णुद नः सपत्नान् प्रत्य् अजातान् नुद जातवेदः । अधि नो ब्रूहि सुमना ऽ अहेडꣳस् तव स्याम शर्मꣳस् त्रिवरूथ ऽ उद्भौ
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयꣳ स्याम प्र णुदा नः सपत्नान्
षोडशी स्तोम ऽ ओजो द्रविणम् । चतुश्चत्वारिꣳश स्तोमो वर्चो द्रविणम् । अग्नेः पुरीषम् अस्य अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व
एवश् छन्दः । वरिवश् छन्दः । शंभूश् छन्दः । परिभूश् छन्दः । ऽ आच्छच् छन्दः । मनश् छन्दः । व्यचश् छन्दः । सिन्धुश् छन्दः । समुद्रश् छन्दः । सरिरं छन्दः । ककुप् छन्दः । त्रिककुप् छन्दः । काव्यं छन्दः । ऽ अङ्कुपं छन्दः । अक्षरपङ्क्तिश् छन्दः । पदपङ्क्तिश् छन्दः । विष्टारपङ्क्तिश् छन्दः । क्षुरो भ्राजश् छन्दः
आच्छच् छन्दः । प्रच्छच् छन्दः । संयच् छन्दः । वियच् छन्दः । बृहच् छन्दः । रथन्तरं छन्दः । निकायश् छन्दः । विवधश् छन्दः । गिरश् छन्दः । भ्रजश् छन्दः । सꣳस्तुप् छन्दः । ऽ अनुष्टुप् छन्दः । ऽ एवश् छन्दः । वरिवश् छन्दः । वयश् छन्दः । वयस्कृच् छन्दः । विष्पर्धाश् छन्दः । विशालं छन्दः । छदिश् छन्दः । दूरोहणं छन्दः । तन्द्रं छन्दः । ऽ अङ्काङ्कं छन्दः
रश्मिना सत्याय सत्यं जिन्व । प्रेतिना धर्मणा धर्मं जिन्व । अन्वित्या दिवा दिवं जिन्व । संधिनान्तरिक्षेणान्तरिक्षं जिन्व । प्रतिधिना पृथिव्या पृथिवीं जिन्व । विष्टम्भेन वृष्ट्या वृष्टिं जिन्व । प्रवया ऽह्नाहर् जिन्व । अनुया रात्र्या रात्रीं जिन्व । उशिजा वसुभ्यो वसून् जिन्व । प्रकेतेनादित्येभ्य ऽ आदित्यान् जिन्व
तन्तुना रायस्पोषेण रायस्पोषं जिन्व । सꣳसर्पेण श्रुताय श्रुतं जिन्व । ऐडेनौषधीभिर् ओषधीर् जिन्व । उत्तमेन तनूभिस् तनूर् जिन्व । वयोधसाधीतेनाधीतं जिन्व । अभिजिता तेजसा तेजो जिन्व
प्रतिपद् असि प्रतिपदे त्वा । अनुपद् अस्य् अनुपदे त्वा । सम्पद् असि सम्पदे त्वा । तेजो ऽसि तेजसे त्वा
त्रिवृद् असि त्रिवृते त्वा । प्रवृद् असि प्रवृते त्वा । विवृद् असि विवृते त्वा । सवृद् असि सवृते त्वा । ऽऽआक्रमो ऽस्य् आक्रमाय त्वा । संक्रमो ऽसि संक्रमाय त्वा । उत्क्रमो ऽस्य् उत्क्रमाय त्वा । उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा । अधिपतिनोर्जोर्जं जिन्व
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा ऽ अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याꣳ श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नातु रथन्तरꣳ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा ऽ अधिपतय ऽ इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नातु बृहत् साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु
सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा ऽ अधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु वैरूपꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु
स्वराड् अस्य् उदीच्य् दिङ् मरुतस् ते देवा ऽ अधिपतयः सोमो हेतीनां प्रतिधर्तैकविꣳशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नातु वैराजꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु
अधिपत्न्य् असि बृहती दिग् विश्वे ते देवा ऽ अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिꣳशौ त्वा स्तोमौ पृथिव्याꣳ श्रयतां वैश्वदेवाग्निमारुते ऽ उक्थे ऽ अव्यथायै स्तभ्नीताꣳ शाक्वररैवते सामनी प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु
तु. कूर्मपुराणम् [https://sa.wikisource.org/s/41y १.४३.३], ब्रह्माण्डपुराणम् [https://sa.wikisource.org/s/17qn १.२.२४.६८], वायुपुराणम् [https://sa.wikisource.org/s/5nr ५३.४४]अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश् च रथौजाश् च सेनानीग्रामण्यौ । पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ । मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाꣳसि प्रहेतिस् तेभ्यो नमो ऽअस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
अयं पश्चाद् विश्वव्यचास् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यौ । प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः