इदं उत्तरात् स्वः । तस्य श्रोत्रꣳ सौवम् । शरच् छ्रौत्री । अनुष्टुप् शारदी । अनुष्टुभ ऽ ऐडम् । ऐडान् मन्थी । मन्थिन ऽ एकविꣳशः ऽ । एकविꣳशाद् वैराजम् । विश्वामित्र ऽ ऋषिः । प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः
इयं उपरि मतिः । तस्यै वाङ् मात्या । हेमन्तो वाच्यः । पङ्क्तिर् हैमन्ती । पङ्क्त्यै निधनवत् । निधनवत ऽ आग्रयणः । आग्रयणात् त्रिणवत्रयस्त्रिꣳशौ । त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते । विश्वकर्म ऽ ऋषिः । प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः । [ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ ]???
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आ सीद साधुया । उख्यस्य केतुं प्रथमं जुषाणा । अश्विनाध्वर्यू सादयताम् इह त्वा
कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः । अभि त्वा रुद्रा वसवो गृणन्त्व् इमा ब्रह्म पीपिहि सौभगाय । अश्विनाध्वर्यू सादयताम् इह त्वा
स्वैर् दक्षैर् दक्षपितेह सीद देवानाꣳ सुम्ने बृहते रणाय । पितेवैधि सूनव ऽ आ सुशेवा स्वावेशा तन्वा सं विशस्व । अश्विनाध्वर्यू सादयताम् इह त्वा
पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व । अश्विनाध्वर्यू सादयताम् इह त्वा
अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर् द्रप्सो ऽ अपाम् असि विश्वकर्मा त ऽ ऋषिः । अश्विनाध्वर्यू सादयताम् इह त्वा
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू ऽ अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे ग्रैष्माव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा
प्राणं मे पाहि । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर् म ऽ उर्व्या वि भाहि । श्रोत्रं मे श्लोकय । अपः पिन्व । ओषधीर् जिन्व । द्विपाद् अव । चतुष्पात् पाहि । दिवो वृष्टिम् एरय
मूर्धा वयः प्रजापतिश् छन्दः । क्षत्रं वयो मयंदं छन्दः । विष्टम्भो वयो ऽधिपतिश् छन्दः । विश्वकर्मा वयः परमेष्ठी छन्दः । वस्तो वयो विवलं छन्दः । वृष्णिर् वयो विशालं छन्दः । पुरुषो वयस् तन्द्रं छन्दः । व्याघ्रो वयो ऽनाधृष्टं छन्दः । सिꣳहो वयश् छदिश् छन्दः । पष्ठवाड् वयो बृहती छन्दः । ऽ उक्षा वयः ककुप् छन्दः । ऽ ऋषभो वयः सतोबृहती छन्दः
अनड्वान् वयः पङ्क्तिश् छन्दः । धेनुर् वयो जगती छन्दः । त्र्यविर् वयस् त्रिष्टुप् छन्दः । दित्यवाड् वयो विराट् छन्दः । पञ्चाविर् वयो गायत्री छन्दः । त्रिवत्सो वय ऽ उष्णिक् छन्दः । तुर्यवाड् वयो ऽनुष्टुप् छन्दः । [ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ ]???
इन्द्राग्नी ऽ अव्यथमानाम् इष्टकां दृꣳहतं युवम् । पृष्ठेन द्यावापृथिवी ऽ अन्तरिक्षं च विबाधसे
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम् अन्तरिक्षं यच्छान्तरिक्षं दृꣳहान्तरिक्षं मा हिꣳसीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । वायुष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद
राज्ञ्य् असि प्राची दिक् । विराड् असि दक्षिणा दिक् । सम्राड् असि प्रतीची दिक् । स्वराड् अस्य् उदीची दिक् । अधिपत्न्य् असि बृहती दिक्
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ । वायुष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद
नभश् च नभस्यश् च वार्षिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे वार्षिकाव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
इषश् चोर्जश् च शारदाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे शारदाव् ऋतू ऽ अभिकल्पमाना ऽइन्द्रम् इव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
आयुर् मे पाहि । प्राणं मे पाहि । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर् मे पाहि । श्रोत्रं मे पाहि । वाचं मे पिन्व । मनो मे जिन्व । आत्मानं मे पाहि । ज्योतिर् मे यच्छ
मा छन्दः । प्रमा छन्दः । प्रतिमा छन्दः । ऽ अस्रीवयश् छन्दः । पङ्क्तिश् छन्दः । ऽ उष्णिक् छन्दः । बृहती छन्दः । ऽअनुष्टुप् छन्दः । विराट् छन्दः । गायत्री छन्दः । त्रिष्टुप् छन्दः । जगती छन्दः
पृथिवी छन्दः । ऽअन्तरिक्षं छन्दः । द्यौश् छन्दः । समाश् छन्दः । नक्षत्राणि छन्दः । वाक् छन्दः । मनश् छन्दः । कृषिश् छन्दः । हिरण्यं छन्दः । गौश् छन्दः । ऽअजा छन्दः । ऽअश्वश् छन्दः
अग्निर् देवता । वातो देवता । सूर्यो देवता । चन्द्रमा देवता । वसवो देवता । रुद्रा देवता । ऽऽआदित्या देवता । मरुतो देवता । विश्वे देवा देवता । बृहस्पतिर् देवता । इन्द्रो देवता । वरुणो देवता
मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी । आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा
यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री । इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा । लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
आशुर् त्रिवृत् । भान्तः पञ्चदशः । व्योमा सप्तदशः । धरुण ऽ एकविꣳशः । प्रतूर्तिर् अष्टादशः । तपो नवदशः । ऽअभीवर्तः सविꣳशः । वर्चो द्वाविꣳशः । संभरणस् त्रयोविꣳशः । योनिश् चतुर्विꣳशः । गर्भाः पञ्चविꣳशः । ऽ ओजस् त्रिणवः । क्रतुर् एकत्रिꣳशः । प्रतिष्ठा त्रयस्त्रिꣳशः । ब्रध्नस्य विष्टपं चतुस्त्रिꣳशः । नाकः षट्त्रिꣳशः । विवर्तो ष्टाचत्वारिꣳशः । धर्त्रं चतुष्टोमः
अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः । इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रꣳ स्पृतं पञ्चदशः स्तोमः । नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रꣳ स्पृतꣳ सप्तदशः स्तोमः । मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविꣳश स्तोमः
वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विꣳश स्तोमः । आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविꣳश स्तोमः । अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः । देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यꣳ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः
यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिꣳश स्तोमः । ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतꣳ स्पृतं त्रयस्त्रिꣳश स्तोमः
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् । तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् । पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् । सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत्