अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः । सहस्रवीर्यासि सा मा जिन्व ॥ 27 मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः
मधु नक्तम् उतोषसो मधुमत् पार्थिवꣳ रजः । मधु द्यौर् अस्तु नः पिता
मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः
अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः । अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम्
त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् । पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा
ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः । स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन्
इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय । सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम्
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्ति मन्यवे
युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव । नि होता पूर्व्यः सदः
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः । घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा । अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च
अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् । सहस्रदा ऽ असि सहस्राय त्वा
आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्धि हरसा माभि मꣳस्थाः शतायुषं कृणुहि चीयमानः
वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये । शिशुं नदीनाꣳ हरिम् अद्रिबुध्नम् अग्ने मा हिꣳसीः परमे व्योमन्
अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः । स पर्वभिर् ऋतुशः कल्पमानो गां मा हिꣳसीर् अदितिं विराजम्
वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् । महीꣳ साहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन्
यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि । येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च
इमं मा हिꣳसीर् द्विपादं पशुꣳ सहस्राक्षो मेधाय चीयमानः । मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद । मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु
इमं मा हिꣳसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु । गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु
इमꣳ साहस्रꣳ शतधारम् उत्सं व्यच्यमानꣳ सरिरस्य मध्ये । घृतं दुहानाम् अदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन् । गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् । त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् । उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु
अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे । तेन देवा देवताम् अग्रम् आयꣳस् तेन रोहम् आयन्न् उप मेध्यासः । शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु
त्वं यविष्ठ दाशुषो नॄꣳः पाहि शृणुधी गिरः । रक्षा तोकम् उत त्मना
अपां त्वेमन्त् सादयामि । अपां त्वोद्मन्त् सादयामि । अपां त्वा भस्मन्त् सादयामि । अपां त्वा ज्योतिषि सादयामि । अपां त्वायने सादयामि । अर्णवे त्वा सदने सादयामि । समुद्रे त्वा सदने सादयामि । सरिरे त्वा सदने सादयामि । अपां त्वा क्षये सादयामि । अपां त्वा सधिषि सादयामि । अपां त्वा सदने सादयामि । अपां त्वा सधस्थे सादयामि । अपां त्वा योनौ सादयामि । अपां त्वा पुरीषे सादयामि । अपां त्वा पाथसि सादयामि । गायत्रेण त्वा छन्दसा सादयामि । त्रैष्टुभेन त्वा छन्दसा सादयामि । जागतेन त्वा छन्दसा सादयामि । आनुष्टुभेन त्वा छन्दसा सादयामि । पाश्रून त्वा छन्दसा सादयामि
अयं पुरो भुवः । तस्य प्राणो भौवनायः । वसन्तः प्राणायनः । गायत्री वासन्ती । गायत्र्यै गायत्रम् । गायत्राद् उपाꣳशुः । उपाꣳशोस् त्रिवृत् । त्रिवृतो रथन्तरम् । वसिष्ठ ऽ ऋषिः । प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः
अयं दक्षिणा विश्वकर्मा । तस्य मनो वैश्वकर्मणम् । ग्रीष्मो मानसः । त्रिष्टुब् ग्रैष्मी । त्रिष्टुभः स्वारम् । स्वाराद् अन्तर्यामः । ऽअन्तर्यामात् पञ्चदशः । पञ्चदशाद् बृहत् । भरद्वाज ऽ ऋषिः । प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः
अयं पश्चाद् विश्वव्यचाः । तस्य चक्षुर् वैश्वव्यचसम् । वर्षाश् चाक्षुष्यः । जगती वार्षी । जगत्या ऽ ऋक्समम् । ऋक्समाच् छुक्रः । शुक्रात् सप्तदशः । सप्तदशाद् वैरूपम् । जमदग्निर् ऋषिः । प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्यः