ध्रुवासि धरुणास्तृता विश्वकर्मणा । मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृꣳह
प्रजापतिष् ट्वा सादयत्व् अपा पृष्ठे समुद्रस्येमन् । व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यसि
भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीं मा हिꣳसीः
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । अग्निष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद
काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च
या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास् ते देवीष्टके विधेम हविषा वयम्
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः । ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते
विराड् ज्योतिर् अधारयत् । स्वराड् ज्योतिर् अधारयत् । प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ । अग्निष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद
मधुश् च माधवश् च वासन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे वासन्तिकाव् ऋतू ऽअभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्
अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः । सहस्रवीर्यासि सा मा जिन्व ॥ 27 मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः
मधु नक्तम् उतोषसो मधुमत् पार्थिवꣳ रजः । मधु द्यौर् अस्तु नः पिता
मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः
अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः । अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम्
त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् । पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा
ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः । स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन्
इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय । सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम्
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्ति मन्यवे
युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव । नि होता पूर्व्यः सदः
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः । घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा । अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च
अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् । सहस्रदा ऽ असि सहस्राय त्वा
आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्धि हरसा माभि मꣳस्थाः शतायुषं कृणुहि चीयमानः
वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये । शिशुं नदीनाꣳ हरिम् अद्रिबुध्नम् अग्ने मा हिꣳसीः परमे व्योमन्
अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः । स पर्वभिर् ऋतुशः कल्पमानो गां मा हिꣳसीर् अदितिं विराजम्
वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् । महीꣳ साहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन्
यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि । येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च