अभ्या वर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निर् ऽ इषितो ऽ अरोहत्
अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् । तद् देवेभ्यो भरामसि
इषमूर्जम् अहम् इत ऽ आदम् ऋतस्य योनिं महिषस्य धाराम् । आ मा गोषु विशत्वा तनूषु जहामि सेदिम् अनिराम् अमीवाम्
अग्ने तव श्रवो वयो महि भ्राजन्ते ऽ अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे
पावकवर्चाः शुक्रवर्चा ऽ अनूनवर्चा ऽ उद् इयर्षि भानुना । पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी ऽ उभे
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । त्वे ऽ इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो ऽ अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम्
इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः । रातिं वामस्य सुभगां महीम् इषं दधासि सानसिꣳ रयिम्
ऋतावानं महिषं विश्वदर्शतम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे
सं ते पयाꣳसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । आप्यायमानो ऽ अमृताय सोम दिवि श्रवाꣳस्य् उत्तमानि धिष्व
आ प्यायस्व मदिन्तम सोम विश्वेभिर् अꣳशुभिः । भवा नः सुश्रवस्तमः सखा वृधे
आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् । अग्ने त्वां कामया गिरा
तुभ्यं ता ऽ अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । सम्राड् एको वि राजति
मयि गृह्णाम्य् अग्रे ऽ अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । माम् उ देवताः सचन्ताम्
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानो महाँ२ ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व
ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन ऽ आवः । स बुध्न्या ऽ उपमा ऽ अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः
नमोऽस्तु सर्पेभ्यो ये के च पृथिवीम् अनु । ये ऽ अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः
या ऽ इषवो यातुधानानां ये वा वनस्पतीꣳ१ ऽरनु । ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः
ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ२ ऽ इभेन । तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः
तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । तपूꣳष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः । यो नो दूरे ऽ अघशꣳसो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत्
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते । यो नो ऽ अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम्
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्र मृणीहि शत्रून् । अग्नेष् ट्वा तेजसा सादयामि
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् । अपाꣳ रेताꣳसि जिन्वति । इन्द्रस्य त्वौजसा सादयामि
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चक्रिषे हव्यवाहम्