उच् छुष्मा ऽ ओषधीनां गावो गोष्ठाद् इवेरते । धनꣳ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ 12. 83 इष्कृतिर् नाम वो माताथो यूयꣳ स्थ निष्कृतीः । सीराः पतत्रिणी स्थन यद् आमयति निष्कृथ
अति विश्वाः परिष्ठा स्तेन इव ऽ व्रजम् अक्रमुः । ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः
यद् इमा वाजयन्न् अहम् ओषधीर् हस्त ऽ आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा
यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गं परुष्-परुः । ततो यक्ष्मं वि बाधध्व ऽ उग्रो मध्यमशीर् इव
साकं यक्ष्म प्रपत चाषेण किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया
अन्या वो ऽ अन्याम् अवत्व् अन्यान्यस्या ऽ उपावत । ताः सर्वाः संविदाना ऽ इदं मे प्रावता वचः
याः फलिनीर् या ऽ अफला ऽ अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः
मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्विषात्
अवपतन्तीर् अवदन् दिव ऽ ओषधयस् परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः
या ऽ ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । तासाम् असि त्वम् उत्तमारं कामाय शꣳ हृदे
या ऽ ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु । बृहस्पतिप्रसूता ऽ अस्यै सं दत्त वीर्यम्
याश् चेदम् उपशृण्वन्ति याश् च दूरं परागताः । सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम्
मा वो रिषत् खनिता यस्मै चाहं खनामि वः । द्विपाच् चतुष्पाद् अस्माकꣳ सर्वम् अस्त्व् अनातुरम्
ओषधयः सम् अवदन्त सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस् तꣳ राजन् पारयामसि
नाशयित्री बलासस्यार्शस ऽउपचिताम् असि । अथो शतस्य यक्ष्माणां पाकारोर् असि नाशनी
त्वां गन्धर्वा ऽअखनꣳस् त्वाम् इन्द्रस् त्वां बृहस्पतिः । त्वाम् ओषधे सोमो राजा विद्वान् यक्ष्माद् अमुच्यत
सहस्व मे ऽ अरातीः सहस्व पृतनायतः । सहस्व सर्वं पाप्मानꣳ सहमानास्य् ओषधे
दीर्घायुस्त ऽ ओषधे खनिता यस्मै च त्वा खनाम्य् अहम् । अथो त्वं दीर्घायुर् भूत्वा शतवल्शा वि रोहतात्
त्वम् उत्तमास्य् ओषधे तव वृक्षा ऽ उपस्तयः । उपस्तिर् अस्तु सो स्माकं योऽअस्माꣳ२ऽ अभिदासति
मा मा हिꣳसीज् जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा व्यानट् । यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम
अभ्या वर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निर् ऽ इषितो ऽ अरोहत्
अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् । तद् देवेभ्यो भरामसि
इषमूर्जम् अहम् इत ऽ आदम् ऋतस्य योनिं महिषस्य धाराम् । आ मा गोषु विशत्वा तनूषु जहामि सेदिम् अनिराम् अमीवाम्
अग्ने तव श्रवो वयो महि भ्राजन्ते ऽ अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे
पावकवर्चाः शुक्रवर्चा ऽ अनूनवर्चा ऽ उद् इयर्षि भानुना । पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी ऽ उभे
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । त्वे ऽ इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो ऽ अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम्
इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः । रातिं वामस्य सुभगां महीम् इषं दधासि सानसिꣳ रयिम्
ऋतावानं महिषं विश्वदर्शतम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे