असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्याम् अन्व् इहि तस्करस्य । अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु
नमः सु ते निर्ऋते तिग्मतेजो ऽयस्मयं वि चृता बन्धम् एतम् । यमेन त्वं यम्या संविदानोत्तमे नाके ऽ अधि रोहयैनम्
यस्यास् ते घोर ऽ आसन् जुहोम्य् एषां बन्धानाम् अवसर्जनाय । यां त्वा जनो भूमिर् इति प्रमन्दते निर्ऋतिं त्वाहं परि वेद विश्वतः
यं ते देवी निर्ऋतिर् आबबन्ध पाशं ग्रीवास्व् अविचृत्यम् । तं ते वि ष्याम्य् आयुषो न मध्याद् अथैतं पितुम् अद्धि प्रसूतः । नमो भूत्यै येदं चकार
निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे शचीभिः । देव ऽ इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम्
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन् नो नेदीयऽ इत् सृण्यः पक्वम् एयात्
शुनꣳ सु फाला वि कृषन्तु भूमिꣳ शुनं कीनाशा ऽ अभि यन्तु वाहैः । शुनासीरा हविषा तोशमाना सुपिप्पला ऽ ओषधीः कर्तनास्मे
घृतेन सीता मधुना सम् अज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाभ्या ववृत्स्व
लाङ्गलं पवीरवत् सुशेवꣳ सोमपित्सरु । तद् उद् वपति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम्
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ऽ ओषधीभ्यः
वि मुच्यध्वम् अघ्न्या देवयाना ऽ अगन्म तमसस् पारम् अस्य ज्योतिर् आपाम
सजूर् अब्दो ऽ अयवोभिः सजूर् उषा ऽ अरुणीभिः सजोषसाव् अश्विना दꣳसोभिः सजूः सूर ऽ एतशेन सजूर् वैश्वानर ऽ इडया घृतेन स्वाहा
या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगं पुरा । मनै नु बभ्रूणाम् अहꣳ शतं धामानि सप्त च
शतं वो ऽ अम्ब धामानि सहस्रम् उत वो रुहः । अधा शतक्रत्वो यूयम् इमं मे ऽ अगदं कृत
ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा ऽ इव सजित्वरीर् वीरुधः पारयिष्ण्वः
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । सनेयम् अश्वं गां वास ऽ आत्मानं तव पूरुष
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता । गोभाज ऽ इत् किलासथ यत् सनवथ पूरुषम्
यत्रौषधीः समग्मत राजानः समिताव् इव । विप्रः स ऽ उच्यते भिषग् रक्षोहामीवचातनः
अश्वावतीꣳ सोमावतीमूर्जयन्तीम् उदोजसम् । आवित्सि सर्वा ऽ ओषधीर् अस्मा अरिष्टतातये
उच् छुष्मा ऽ ओषधीनां गावो गोष्ठाद् इवेरते । धनꣳ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ 12. 83 इष्कृतिर् नाम वो माताथो यूयꣳ स्थ निष्कृतीः । सीराः पतत्रिणी स्थन यद् आमयति निष्कृथ
अति विश्वाः परिष्ठा स्तेन इव ऽ व्रजम् अक्रमुः । ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः
यद् इमा वाजयन्न् अहम् ओषधीर् हस्त ऽ आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा
यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गं परुष्-परुः । ततो यक्ष्मं वि बाधध्व ऽ उग्रो मध्यमशीर् इव
साकं यक्ष्म प्रपत चाषेण किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया
अन्या वो ऽ अन्याम् अवत्व् अन्यान्यस्या ऽ उपावत । ताः सर्वाः संविदाना ऽ इदं मे प्रावता वचः
याः फलिनीर् या ऽ अफला ऽ अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः
मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्विषात्
अवपतन्तीर् अवदन् दिव ऽ ओषधयस् परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः
या ऽ ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । तासाम् असि त्वम् उत्तमारं कामाय शꣳ हृदे