अग्नेऽ दब्धायो ऽशीतम पाहि मा दिद्योः । पाहि प्रसित्यै । पाहि दुरिष्ट्यै । पाहि दुरद्मन्याऽ अविषं नः पितुं कृणु । सुषदा योनौ स्वाहा वाट् । अग्नये संवेशपतये स्वाहा । सरस्वत्यै यशोभगिन्यै स्वाहा
वेदो ऽसि येन त्वं देव वेद देवेभ्यो वेदोऽ भवस् तेन मह्यं वेदो भूयाः । देवा गातुविदो गातुं वित्त्वा गातुम् इत । मनसस् पतऽ इमं देव यज्ञꣳ स्वाहा वाते धाः
सं बर्हिर् अङ्क्ताꣳ हविषा घृतेन सम् आदित्यैर् वसुभिः सं मरुद्भिः । सम् इन्द्रो विश्वदेवेभिर् अङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा
कस् त्वा वि मुञ्चति स त्वा वि मुञ्चति कस्मै त्वा वि मुञ्चति तस्मै त्वा वि मुञ्चति । पोषाय । रक्षसां भागो ऽसि
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन । त्वष्टा सुदत्रो वि दधातु रायोऽ नुमार्ष्टु तन्वो यद् विलिष्टम्
दिवि विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । अन्तरिक्षे विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो योऽ स्मान् द्वेष्टि यं च वयं द्विष्मः । पृथिव्यां विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । अस्माद् ऽअन्नादस्यै प्रतिष्ठायै । ऽ अगन्म स्वः । सं ज्योतिषाभूम
स्वयम्भूर् असि श्रेष्ठो रश्मिर् ऽवर्चोदा असि वर्चो मे देहि । सूर्यस्यावृतम् अन्व् आवर्ते
अग्ने गृहपते सुगृहपतिस् त्वयाऽग्ने ऽहं गृहपतिना भूयासꣳ सुगृहपतिस् त्वं मयाऽग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि सन्तु शतꣳ हिमाः । सूर्यस्यावृतम् अन्व् आवर्ते
अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मेऽ राधि । इदम् अहं यऽ एवाऽस्मि सोऽस्मि
अग्नये कव्यवाहनाय स्वाहा । सोमाय पितृमते स्वाहा । अपहता ऽ असुरा रक्षाꣳसि वेदिषदः
ये रूपाणि प्रतिमुञ्चमाना ऽ असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्य् अग्निष्टाँन् लोकात् प्र णुदात्य् अस्मात्
अत्र पितरो मादयध्वं यथाभागम् आ वृषायध्वम् । अमीमदन्त पितरो यथाभागम् आ वृषायिषत
नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासः
आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो ऽसत्
ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄन्
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आस्मिन् हव्या जुहोतन
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे
तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य
उप त्वाग्ने हविष्मतीर् घृताचीर् यन्तु हर्यत । जुषस्व समिधो मम
भूर् भुवः स्वः । द्यौर् इव भूम्ना पृथिवीव वरिम्णा । तस्यास् ते पृथिवि देवयजनि पृष्ठेऽ ग्निम् अन्नादम् अन्नाद्याया दधे
आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः । पितरं च प्रयन्त्स्वः
अन्तश् चरति रोचनास्य प्राणाद् अपानती । व्यख्यन् महिषो दिवम्
त्रिꣳशद् धाम वि राजति वाक् पतङ्गाय धीयते । प्रति वस्तोर् अह द्युभिः
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा । सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा । अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा । सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या । जुषाणो ऽअग्निर् वेतु स्वाहा । सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या । जुषाणः सूर्यो वेतु स्वाहा
उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये । आरे ऽ अस्मे च शृण्वते
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् । अपाᳬं रेताᳬंसि जिन्वति
उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै । उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम्
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम्
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे