प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् । बृहद्भिर् भानुभिर् भासन् मा हिꣳसीस् तन्वा प्रजाः
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः
प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुं पृतनासु तस्थउ दीदाय दैव्यो ऽ अतिथिः शिवो नः
आपो देवीः प्रति गृभ्णीत भस्मैतत् स्योने कृणुध्वꣳ सुरभा ऽ उ लोके । तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रं बिभृताप्स्व् एनत्
अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे । गर्भै सन् जायसे पुनः
गर्भोऽअस्य् ओषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भोऽअपाम् असि
प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने । सꣳसृज्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः
पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने । शेषे मातुर् यथोपस्थे ऽन्तर् अस्याꣳ शिवतमः
पुनर् ऊर्जा निवर्तस्व पुनर् अग्न ऽ इषायुषा । पुनर् नः पाह्य् अꣳहसः
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि
बोधा मे ऽ अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो ऽ अनु त्वो गृणाति वन्दारुष् टे तन्वं वन्दे ऽ अग्ने
स बोधि सूरिर् मघवा वसुपते वसुदावन् । युयोध्य् अस्मद् द्वेषाꣳसि । विश्वकर्मणे स्वाहा
पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धतां पुनर् ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः
अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः । अदाद् यमो ऽवसानं पृथिव्या ऽ अक्रन्न् इमं पितरो लोकम् अस्मै
संज्ञानम् असि । कामधरणम् । मयि ते कामधरणं भूयात् । अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि । चित स्थ परिचित ऽ ऊर्ध्वचितः श्रयध्वम्
अयꣳ सो ऽ अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । सहस्रिणं वाजम् अत्यं न सप्तिꣳ ससवान्त् सन्त् स्तूयसे जातवेदः
अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र । येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः
अग्ने दिवोऽ अर्णम् अच्छा जिगास्य् अच्छा देवाꣳ ऽ ऊचिषे धिष्ण्या ये । या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त ऽ आपः
पुरीष्यासो ऽ अग्नयः प्रावणेभिः सजोषसः । जुषन्तां यज्ञम् अद्रुहोऽनमीवा ऽइषो महीः
इडाम् अग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आ रोहाथा नो वर्धया रयिम्
चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद । परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन्
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः
इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्
समितꣳ सं कल्पेथाꣳ सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जम् अभि संवसानौ
सं वां मनाꣳसि सं व्रता सम् उ चित्तान्य् आकरम् । अग्ने पुरीष्याधिपा भव त्वं न ऽ इषमूर्जं यजमानाय धेहि
अग्ने त्वं पुरीष्यो रयिमान् पुष्टिमाꣳ२ ऽ असि । शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः
भवतं नः समनसौ सचेतसाव् अरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः
मातेव पुत्रं पृथिवी पुरीष्यम् अग्निꣳ स्वे योनाव् अभार् उखा । तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु