नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची । द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्योऽनु प्रयाणम् उषसो वि राजति
सुपर्णोऽसि गरुत्माꣳस् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ । स्तोम ऽ आत्मा छन्दाꣳस्य् अङ्गानि यजूꣳषि नाम । साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः । सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत
विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द ऽ आ रोह पृथिवीम् अनु वि क्रमस्व । विष्णोः क्रमोऽस्य् अभिमातिहा त्रैष्टुभं छन्द ऽ आ रोहान्तरिक्षम् अनु वि क्रमस्व । विष्णोः क्रमोऽस्य् अरातीयतो हन्ता जागतं छन्द ऽ आ रोह दिवम् अनु वि क्रमस्व । विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द ऽ आ रोह दिशोऽनु वि क्रमस्व
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धोऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः
अग्नेऽभ्यावर्तिन्न् अभि मा नि वर्तस्वायुषा वर्चसा प्रजया धनेन । सन्या मेधया रय्या पोषेण
अग्ने ऽ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त ऽ उपावृतः । अधा पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न ऽ इषायुषा । पुनर् नः पाह्य् अꣳहसः
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि
आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत्
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमꣳ श्रथाय । अथा वयम् आदित्य व्रते तवानागसो ऽ अदितये स्याम
अग्रे बृहन्न् उषसामूर्ध्वो ऽ अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् । अग्निर् भानुना रुशता स्वङ्ग ऽ आ जातो विश्वा सद्मान्य् अप्राः
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा अद्रिजा ऽ ऋतम् बृहत्
सीद त्वं मातुर् अस्या ऽ उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनां तपसा मार्चिषाऽभिशोचीर् अन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि
अन्तर् अग्ने रुचा त्वम् उखायाः सदने स्वे । तस्यास् त्वꣳ हरसा तपन् जातवेदः शिवो भव
शिवो भूत्वा मह्यम् अग्नेऽ अथो सीद शिवस् त्वम् । शिवः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः
दिवस् परि प्रथमं जज्ञे ऽ अग्निर् अस्माद् द्वितीयं परि जातवेदाः । तृतीयम् अप्सु नृमणा ऽ अजस्रम् इन्धान ऽ एनं जरते स्वाधीः
विद्मा ते ऽ अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत ऽ आजगन्थ
समुद्रे त्वा नृमणा ऽ अप्स्व् अन्तर् नृचक्षा ऽ ईधे दिवो अग्न ऽ ऊधन् । तृतीये त्वा रजसि तस्थिवाꣳसम् अपाम् उपस्थे महिषा ऽ अवर्धन्
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः
श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः । वसुः सूनुः सहसो ऽ अप्सु राजा वि भात्य् अग्र ऽ उषसाम् इधानः
विश्वस्य केतुर् भुवनस्य गर्भऽ आ रोदसी ऽ अपृणाज् जायमानः । वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च
उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो नि धायि । इयर्ति धूमम् अरुषं भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन्
दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः
यस् ते अद्य कृणवद् भद्रशोचेऽपूपं देव घृतवन्तम् अग्ने । प्र तं नय प्रतरं वस्यो ऽ अच्छाभि सुम्नं देवभक्तं यविष्ठ
आ तं भज सौश्रवसेष्व् अग्न ऽ उक्थ ऽ उक्थ ऽ आ भज शस्यमाने । प्रियः सूर्ये प्रियो ऽ अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः
त्वाम् अग्ने यजमाना ऽ अनु द्यून् विश्वा वसु दधिरे वार्याणि । त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः
अस्ताव्य् अग्निर् नराꣳ सुशेवो वैश्वानर ऽ ऋषिभिः सोमगोपाः । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम्
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आस्मिन् हव्या जुहोतन
उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः । स नो भव शिवस् त्वꣳ सुप्रतीको विभावसुः