वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् । रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् । आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत्
आकूतिम् अग्निं प्रयुजꣳ स्वाहा । मनो मेधाम् अग्निं प्रयुजꣳ स्वाहा । चित्तं विज्ञातम् अग्निं प्रयुजꣳ स्वाहा । वाचो विधृतिम् अग्निं प्रयुजꣳ स्वाहा । प्रजापतये मनवे स्वाहा । ऽ अग्नये वैश्वानराय स्वाहा
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा
मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु । अग्निश् चेदं करिष्यथः
दृꣳहस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि । जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन्
द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो ऽ अद्भुतः
परस्या ऽ अधि संवतो वराꣳ ऽ अभ्य् आतर । यत्राहम् अस्मि ताꣳ ऽ अव
परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि । पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः
यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य
यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य
अहर्-अहर् अप्रयावं भरन्तोऽश्वायेव तिष्ठते घासम् अस्मै । रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम
नाभा पृथिव्याः समिधाने ऽ अग्नौ रायस्पोषाय बृहते हवामहे । इरंमदं बृहदुक्थ्यं यजत्रं जेतारम् अग्निं पृतनासु सासहिम्
याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत । ये स्तेना ये च तस्करास् ताꣳस् ते ऽ अग्ने ऽपि दधाम्य् आस्ये
दꣳष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराꣳ ऽउत । हनुभ्याꣳ स्तेनान् भगवस् ताꣳस् त्वं खाद सुखादितान्
ये जनेषु मलिम्लव स्तेनासस् तस्करा वने । ये कक्षेष्व् अघायवस् ताꣳस् ते दधामि जम्भयोः
यो ऽ अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः । निन्दाद् यो ऽ अस्मान् धिप्साच् च सर्वं तं भस्मसा कुरु
सꣳशितं मे ब्रह्म सꣳशितं वीर्यं बलम् । सꣳशितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः
उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् । क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाꣳ अहम्
अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः । प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे
दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची । द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्योऽनु प्रयाणम् उषसो वि राजति
सुपर्णोऽसि गरुत्माꣳस् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ । स्तोम ऽ आत्मा छन्दाꣳस्य् अङ्गानि यजूꣳषि नाम । साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः । सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत
विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द ऽ आ रोह पृथिवीम् अनु वि क्रमस्व । विष्णोः क्रमोऽस्य् अभिमातिहा त्रैष्टुभं छन्द ऽ आ रोहान्तरिक्षम् अनु वि क्रमस्व । विष्णोः क्रमोऽस्य् अरातीयतो हन्ता जागतं छन्द ऽ आ रोह दिवम् अनु वि क्रमस्व । विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द ऽ आ रोह दिशोऽनु वि क्रमस्व
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धोऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः
अग्नेऽभ्यावर्तिन्न् अभि मा नि वर्तस्वायुषा वर्चसा प्रजया धनेन । सन्या मेधया रय्या पोषेण
अग्ने ऽ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त ऽ उपावृतः । अधा पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न ऽ इषायुषा । पुनर् नः पाह्य् अꣳहसः
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि
आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत्