शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः । मा द्यावापृथिवी ऽ अभि शोचीर् मान्तरिक्षं मा वनस्पतीन्
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा । भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा । वृषाग्निं वृषणं भरन्न् अपां गर्भꣳ समुद्रियम् । अग्न ऽ आयाहि वीतये
ऋतꣳ सत्यम् ऋतꣳ सत्यम् । अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः । ओषधयः प्रति मोदध्वम् अग्निम् एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्माः । व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि
ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः । अयं वो गर्भ ऽ ऋत्वियः प्रत्नꣳ सधस्थम् आसदत्
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः । सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन । महे रणाय चक्षसे
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
मित्रः सꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह । सुजातं जातवेदसम् अयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः
रुद्राः सꣳसृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे । तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते
सꣳसृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् । हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम्
सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यम् अदिते मह्योखां दधातु हस्तयोः
उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया । माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ । मखस्य शिरोऽसि
वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि । धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय । रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि । धारया मयि प्रजाꣳ रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय । आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि । धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि । धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय
अदित्यै राम्नासि । अदितिष् टे बिलं गृभ्णातु । कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये । पुत्रेभ्यः प्रायच्छद् अदितिः श्रपयान् इति
वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् । रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् । आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् । इन्द्रस् त्वा धूपयतु । वरुणस् त्वा धूपयतु । विष्णु त्वा धूपयतु
अदितिष् ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् खनत्व् अवट । देवानाम् त्वा पत्नीर् देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् दधतूखे । धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् अभीन्धताम् उखे । वरूत्रीष् ट्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वच् छ्रपयन्तूखे । ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे । जनयस् त्वाच्छिन्नपत्रा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम्
देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुर् उत शक्त्या । अव्यथमाना पृथिव्याम् आशा दिश ऽ आ पृण
उत्थाय बृहती भवोद् उ तिष्ठ ध्रुवा त्वम् । मित्रैतां तऽउखां परि ददाम्य् अभित्त्या ऽएषा मा भेदि
वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् । रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् । आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत्
आकूतिम् अग्निं प्रयुजꣳ स्वाहा । मनो मेधाम् अग्निं प्रयुजꣳ स्वाहा । चित्तं विज्ञातम् अग्निं प्रयुजꣳ स्वाहा । वाचो विधृतिम् अग्निं प्रयुजꣳ स्वाहा । प्रजापतये मनवे स्वाहा । ऽ अग्नये वैश्वानराय स्वाहा
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा
मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु । अग्निश् चेदं करिष्यथः
दृꣳहस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि । जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन्
द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो ऽ अद्भुतः
परस्या ऽ अधि संवतो वराꣳ ऽ अभ्य् आतर । यत्राहम् अस्मि ताꣳ ऽ अव
परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि । पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः
यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य
यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य