प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि । उर्व् अन्तरिक्षं वीहि । स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर । अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः । ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ
आगत्य वाज्य् अध्वानꣳ सर्वा मृधो विधूनुते । अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् । भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम्
द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रो योनिः । विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् । वयꣳ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकꣳ सुकृतं पृथिव्याम् । ततः खनेम सुप्रतीकम् अग्निꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम्
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम्
आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत । मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः
परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । दधद् रत्नानि दाशुषे
परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि । धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम्
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि । ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् । शिवं प्रजाभ्यो ऽहिꣳसन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानो महाꣳ२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व
शर्म च स्थो वर्म च स्थो ऽच्छिद्रे बहुले ऽ उभे । व्यचस्वती सं वसाथां भृतम् अग्निं पुरीष्यम्
संवसाथा स्वर्विदा समीची ऽ उरसा त्मना । अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत्
पुरीष्यो सि विश्वभरा ऽ अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने । त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ऽ ईधे अथर्वणः । वृत्रहणं पुरंदरम्
तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयꣳ रणे-रणे
सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः
नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ२ ऽ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः
सꣳ सीदस्व महाꣳ२ ऽ असि शोचस्व देववीतमः । वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम्
अपो देवीर् उपसृज मधुमतीर् अयक्ष्माय प्रजाभ्यः । तासाम् आस्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः
सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् । यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम्
सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः । वासो ऽ अग्ने विश्वरूपꣳ संव्ययस्व विभावसो
उद् उ तिष्ठ स्वध्वरावा नो देव्या धिया । दृशे च भासा बृहता शुशुक्वनिर् आग्ने याहि सुशस्तिभिः
ऊर्ध्व ऽ ऊ षु ण ऽ ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे
स जातो गर्भो ऽ असि रोदस्योर् अग्ने चारुर् विभृत ऽ ओषधीषु । चित्रः शिशुः परि तमास्य् अक्तून् प्र मातृभ्यो ऽ अधि कनिक्रदद् गाः
स्थिरो भव वीड्व् अङ्ग ऽ आशुर् भव वाज्य् अर्वन् । पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहणः