अग्निः पृथुर् धर्मणस् पतिर् जुषाणो अग्निः पृथुर् धर्मणस् पतिर् आज्यस्य वेतु स्वाहा । स्वाहाकृताः सूर्यस्य रश्मिभिर् यतध्वꣳ सजातानां मध्यमेष्ठ्याय
सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिर् इन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्र सर्पामि
अश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व । वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिस्रुतः । इन्द्रस्य युज्यः सखा
कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति । उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे
वयꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा । विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम्
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः । यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्
युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् । अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत्
युक्तेन मनसा वयं देवस्य सवितुः सवे । स्वर्ग्याय शक्त्या
युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान्
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः
युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः । शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः
यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा । यः पार्थिवानि विममे स ऽ एतशो रजासि देवः सविता महित्वना
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु
इमं नो देव सवितर् यज्ञं प्र णय देवाव्यꣳ सखिविदꣳ सत्राजितं धनजितꣳ स्वर्जितम् । ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत्
अभ्रिर् असि नार्य् असि त्वया वयम् अग्निꣳ शकेम खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत्
हस्त ऽ आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् । अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर । आनुष्टुभेन छन्दसाङ्गिरस्वत्
प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् । दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत्
युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू । अग्निं भरन्तम् अस्मयुम्
योगे-योगे तवस्तरं वाजे-वाजे हवामहे । सखाय ऽ इन्द्रमूतये
प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि । उर्व् अन्तरिक्षं वीहि । स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर । अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः । ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ
आगत्य वाज्य् अध्वानꣳ सर्वा मृधो विधूनुते । अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् । भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम्
द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रो योनिः । विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् । वयꣳ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकꣳ सुकृतं पृथिव्याम् । ततः खनेम सुप्रतीकम् अग्निꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम्
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम्
आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत । मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः