प्र पर्वतस्य वृषभस्य पृष्ठान् नावश् चरन्ति स्वसिच ऽइयानाः । ता ऽ आववृत्रन्न् अधराग् उदक्ता ऽ अहिं बुध्न्यम् अनु रीयमाणाः । विष्णोर् विक्रमणम् असि । विष्णोर् विक्रान्तम् असि । विष्णोः क्रान्तम् असि
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । अयम् अमुष्य पिताऽसाव् अस्य पिता । वयꣳ स्याम पतयो रयीणा स्वाहा । रुद्र यत् ते क्रिवि परं नाम तस्मिन् हुतम् अस्य् अमेष्टम् असि स्वाहा
इन्द्रस्य वज्रो ऽसि । मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि । अव्यथायै त्वा स्वधायै त्वाऽरिष्टो अर्जुनः । मरुतां प्रसवेन जय । आपाम मनसा । सम् इन्द्रियेण
मा त ऽ इन्द्र ते वयं तुराषाड् अयुक्तासो ऽ अब्रह्मता विदसाम । तिष्ठा रथम् अधि यं वज्रहस्ता रश्मीन् देव युवसे स्वश्वान्
अग्नये गृहपतये स्वाहा । सोमाय वनस्पतये स्वाहा । मरुताम् ओजसे स्वाहा । इन्द्रस्येन्द्रियाय स्वाहा । पृथिवि मातर् मा मा हिꣳसीर् मो ऽ अहं त्वाम्
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा ऽ अद्रिजा ऽ ऋतं बृहत्
इयद् अस्यायुर् अस्यायुर् मयि धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि । ऊर्ग् अस्य् ऊर्जं मयि धेहि । इन्द्रस्य वां वीर्यकृतो बाहू ऽअभ्युपाव हरामि
स्योनासि सुषदासि । क्षत्रस्य योनिर् असि । स्योनाम् आ सीद सुषदाम् आ सीद क्षत्रस्य योनिम् आ सीद
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ । साम्राज्याय सुक्रतुः
अभिभूर् अस्य् एतास् ते पञ्च दिशः कल्पन्ताम् । ब्रह्मꣳस् त्वं ब्रह्मासि सवितासि सत्यप्रसवः । वरुणो ऽसि सत्यौजाः । ऽ इन्द्रो ऽसि विशौजाः । रुद्रोऽ सि सुशेवः । बहुकार श्रेयस्कर भूयस्कर । इन्द्रस्य वज्रो ऽसि तेन मे रध्य
अग्निः पृथुर् धर्मणस् पतिर् जुषाणो अग्निः पृथुर् धर्मणस् पतिर् आज्यस्य वेतु स्वाहा । स्वाहाकृताः सूर्यस्य रश्मिभिर् यतध्वꣳ सजातानां मध्यमेष्ठ्याय
सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिर् इन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्र सर्पामि
अश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व । वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिस्रुतः । इन्द्रस्य युज्यः सखा
कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति । उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे
वयꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा । विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम्
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः । यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्
युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् । अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत्
युक्तेन मनसा वयं देवस्य सवितुः सवे । स्वर्ग्याय शक्त्या
युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान्
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः
युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः । शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः
यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा । यः पार्थिवानि विममे स ऽ एतशो रजासि देवः सविता महित्वना
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु
इमं नो देव सवितर् यज्ञं प्र णय देवाव्यꣳ सखिविदꣳ सत्राजितं धनजितꣳ स्वर्जितम् । ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत्
अभ्रिर् असि नार्य् असि त्वया वयम् अग्निꣳ शकेम खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत्
हस्त ऽ आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् । अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर । आनुष्टुभेन छन्दसाङ्गिरस्वत्
प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् । दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत्
युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू । अग्निं भरन्तम् अस्मयुम्
योगे-योगे तवस्तरं वाजे-वाजे हवामहे । सखाय ऽ इन्द्रमूतये