अग्ने ऽ अच्छावदेह नः प्रति नः सुमना भव । प्र नो यच्छ सहस्रजित्त्वꣳ हि धनदा ऽ असि स्वाहा
प्र नो यच्छत्व् अर्यमा प्र पूषा प्र बृहस्पतिः । प्र वाग् देवी ददातु नः स्वाहा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर् यन्त्रिये दधामि बृहस्पतेष् ट्वा साम्राज्येनाभि षिञ्चाम्य् असौ
अग्निर् एकाक्षरेण प्राणम् उद् अजयत् तम् उज् जेषम् । अश्विनौ द्व्यक्षरेण द्विपदो मनुष्यान् उद् अजयतां तान् उज् जेषम् । विष्णुस् त्र्यक्षरेण त्रीꣳल् लोकान् उद् अजयत् तान् उज् जेषम् । सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् तान् उज् जेषम्
पूषा पञ्चाक्षरेण पञ्च दिश ऽ उद् अजयत् ता ऽ उज् जेषम् । सविता षडक्षरेण षड् ऋतून् उद् अजयत् तान् उज् जेषम् । मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशून् उद् अजयꣳस् तान् उज् जेषम् । बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ताम् उज् जेषम्
मित्रो नवाक्षरेण त्रिवृतꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् । वरुणो दशाक्षरेण विराजम् उद् अजयत् ताम् उज् जेषम् । इन्द्र ऽ एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ताम् उज् जेषम् । विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयꣳस् ताम् उज् जेषम्
वसवस् त्रयोदशाक्षरेण त्रयोदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् । रुद्राश् चतुर्दशाक्षरेण चतुर्दशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् । आदित्याः पञ्चदशाक्षरेण पञ्चदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् । अदितिः षोडशाक्षरेण षोडशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् । प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम्
एष ते निर्ऋते भागस् तं जुषस्व स्वाहा । ऽअग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा । यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा । विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा । मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य ऽ उत्तरासद्भ्यः स्वाहा । सोमनेत्रेभ्यो देवेभ्यो ऽ उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा
ये देवा ऽ अग्निनेत्राः पुरःसदस् तेभ्यः स्वाहा । ये देवा यमनेत्रा दक्षिणासदस् तेभ्यः स्वाहा । ये देवा विश्वदेवनेत्राः पश्चात्सदस् तेभ्यः स्वाहा । ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस् तेभ्यः स्वाहा । ये देवाः सोमनेत्रा ऽ उपरिसदो दुवस्वन्तस् तेभ्यः स्वाहा
अग्ने सहस्व पृतना ऽ अभिमातीर् अपास्य । दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसि
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । उपाꣳशोर् वीर्येण जुहोमि हतꣳ रक्षः स्वाहा । रक्षसां त्वा वधाय । अवधिष्म रक्षोऽ वधिष्मामुम् असौ हतः
सविता त्वा सवानाꣳ सुवताम् अग्निर् गृहपतीना सोमो वनस्पतीनाम् । बृहस्पतिर् वाच ऽ इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम्
इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽ एष वो ऽमी राजा सोमो स्माकं ब्राह्मणाना राजा
अपो देवा मधुमतीर् अगृभ्णन्न् ऊर्जस्वती राजस्वश् चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि । वृषसेनो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । वृषसेनो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि
अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । अर्थेत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । ओजस्वती स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । अपां पतिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । अपां पतिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि । अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । ऽ अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । मान्दा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । वाशा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । शविष्ठा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । शक्वरी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । जनभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । विश्वभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । आपः स्वराज स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । मधुमतीर् मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वानाः । ऽ अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । अग्नये स्वाहा । सोमाय स्वाहा । सवित्रे स्वाहा । सरस्वत्यै स्वाहा । पूष्णे स्वाहा । बृहस्पतये स्वाहा । इन्द्राय स्वाहा । घोषाय स्वाहा । श्लोकाय स्वाहा । अᳬंशाय स्वाहा । भगाय स्वाहा । अर्यम्णे स्वाहा
पवित्रे स्थो वैष्णव्यौ । सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि स्वाहा राजस्वः
सधमादो द्युम्निनीर् आप ऽ एता अनाधृष्टा ऽ अपस्यो वसानाः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाᳬं शिशुर् मातृतमास्व् अन्तः
क्षत्रस्योल्वम् असि । क्षत्रस्य जराय्व् असि । क्षत्रस्य योनिर् असि । क्षत्रस्य नाभिर् असि । इन्द्रस्य वात्रघ्नम् । मित्रस्यासि वरुणस्यासि । त्वयायं वृत्रं वधेत् । दृवासि । रुजासि । क्षुमासि । पातैनं प्राञ्चम् । पातैनं प्रत्यञ्चम् । पातैनं तिर्यञ्चं दिग्भ्यः पात
आविर्मर्याः । ऽ आवित्तो ऽ अग्निर् गृहपतिः । आवित्त ऽ इन्द्रो वृद्धश्रवाः । ऽ आवित्तौ मित्रावरुणौ धृतव्रतौ । आवित्तः पूषा विश्ववेदाः । ऽ आवित्ते द्यावापृथिवी विश्वशम्भुवौ । आवित्तादितिर् उरुशर्मा ॥ 10 अवेष्टा दन्दशूकाः । प्राचीम् आ रोह गायत्री त्वावतु रथन्तरꣳ साम त्रिवृत् स्तोमो वसन्त ऽ ऋतुर् ब्रह्म द्रविणम्
दक्षिणाम् आ रोह त्रिष्टुप् त्वावतु बृहत् साम पञ्चदश स्तोमो ग्रीष्म ऽ ऋतुः क्षत्रं द्रविणम्
प्रतीचीम् आ रोह जगती त्वावतु वैरूपꣳ साम सप्तदश स्तोमो वर्षा ऽ ऋतुः विड् द्रविणम्
उदीचीम् आ रोहानुष्टुप् त्वावतु वैराजꣳ सामैकविꣳश स्तोमः शरद् ऋतुः फलं द्रविणम्
ऊर्ध्वाम् आ रोह पङ्क्तिस् त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिꣳशौ स्तोमौ हेमन्तशिशिराव् ऋतू वर्चो द्रविणम् । प्रत्यस्तं नमुचेः शिरः
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । मृत्योः पाहि । ओजो ऽसि सहो ऽस्य् अमृतम् असि
हिरण्यरूपा ऽउषसो विरोक ऽउभाव् इन्द्रा ऽउदिथः सूर्यश् च । आ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च । मित्रो ऽसि वरुणो ऽसि
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेर् भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण । क्षत्राणां क्षत्रपतिर् एध्य् अति दिद्यून् पाहि
इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽएष वो मी राजा सोमो स्माकं ब्राह्मणाना राजा