वातरꣳहा भव वाजिन् युज्यमान ऽ इन्द्रस्येव दक्षिणः श्रियैधि । युञ्जन्तु त्वा मरुतो विश्ववेदस ऽ आ ते त्वष्टा पत्सु जवं दधातु
जवो यस् ते वाजिन् निहितो गुहा यः श्येने परीत्तो ऽ अचरच् च वाते । तेन नो वाजिन् बलवान् बलेन वाजजिच् च भव समने च पारयिष्णुः । वाजिनो वाजजितो वाजꣳ सरिष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत
देवस्याहꣳ सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकꣳ रुहेयम् । देवस्याहꣳ सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकꣳ रुहेयम् । देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् उत्तमं नाकम् अरुहम् । देवस्याहꣳ सवितुः सवे सत्यप्रसवस ऽ इन्द्रस्योत्तमं नाकम् अरुहम्
बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत । इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत
एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो वि मुच्यध्वम् । एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपताजीजपतेन्द्रं वाजं वनस्पतयो वि मुच्यध्वम्
देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् वाजजितो वाजं जेषम् । वाजिनो वाजजितोऽध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो ऽ अपिकक्ष आसनि । क्रतुं दधिक्रा ऽ अनु सꣳसनिष्यदत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत् स्वाहा
उत स्मास्य द्रवतस् तुरणयतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो ऽ अङ्कसं परि दधिक्राव्णः स होर्जा तरित्रः स्वाहा
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो हिं वृकꣳ रक्षासि सनेम्य् अस्मद् युयवन्न् अमीवाः
ते नो ऽ अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । सहस्रसा मेधसाता सनिष्यवो महो ये धनꣳ समिथेषु जभ्रिरे
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः
आ मा वाजस्य प्रसवो जगम्याद् एमे द्यावापृथिवी विश्वरूपे । आ मा गन्तां पितरा मातरा चा मा सोमो ऽ अमृतत्वेन गम्यात् । वाजिनो वाजजितो वाजꣳ ससृवाꣳसो बृहस्पतेर् भागम् अव जिघ्रत निमृजानाः
आपये स्वाहा । स्वापये स्वाहा । ऽअपिजाय स्वाहा । क्रतवे स्वाहा । वसवे स्वाहा । ऽअहर्पतये स्वाहा । ऽअह्ने मुग्धाय स्वाहा । मुग्धाय वैनꣳशिनाय स्वाहा । विनꣳशिन ऽ आन्त्यायनाय स्वाहा । ऽऽअन्त्याय भौवनाय स्वाहा । भुवनस्य पतये स्वाहा । ऽअधिपतये स्वाहा
आयुर् यज्ञेन कल्पताम् । प्राणो यज्ञेन कल्पताम् । चक्षुर् यज्ञेन कल्पताम् । श्रोत्रं यज्ञेन कल्पताम् । पृष्ठं यज्ञेन कल्पताम् । यज्ञो यज्ञेन कल्पताम् । प्रजापतेः प्रजा ऽ अभूम । स्वर्देवा ऽ अगन्म । अमृता ऽ अभूम
अस्मे वो ऽ अस्त्व् इन्द्रियम् अस्मे नृम्णम् उत क्रतुर् अस्मे वर्चाꣳसि सन्तु वः । नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै । ऽइयं ते राट् । यन्तासि यमनो ध्रुवो ऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा
वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमꣳ राजानम् ओषधीष्व् अप्सु । ता ऽ अस्मभ्यं मधुमतीर् भवन्तु वयꣳ राष्ट्रे जागृयाम पुरोहिताः स्वाहा
वाजस्येमां प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयति प्रजानन् स नो रयिꣳ सर्ववीरं नि यच्छतु स्वाहा
वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः । सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानो ऽ अस्मे स्वाहा
सोमꣳ राजानमवसेऽग्निमन्वारभामहे। आदित्यान् विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिꣳ स्वाहा
अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुꣳ सरस्वती सवितारं च वाजिनꣳ स्वाहा
अग्ने ऽ अच्छावदेह नः प्रति नः सुमना भव । प्र नो यच्छ सहस्रजित्त्वꣳ हि धनदा ऽ असि स्वाहा
प्र नो यच्छत्व् अर्यमा प्र पूषा प्र बृहस्पतिः । प्र वाग् देवी ददातु नः स्वाहा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर् यन्त्रिये दधामि बृहस्पतेष् ट्वा साम्राज्येनाभि षिञ्चाम्य् असौ
अग्निर् एकाक्षरेण प्राणम् उद् अजयत् तम् उज् जेषम् । अश्विनौ द्व्यक्षरेण द्विपदो मनुष्यान् उद् अजयतां तान् उज् जेषम् । विष्णुस् त्र्यक्षरेण त्रीꣳल् लोकान् उद् अजयत् तान् उज् जेषम् । सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् तान् उज् जेषम्
पूषा पञ्चाक्षरेण पञ्च दिश ऽ उद् अजयत् ता ऽ उज् जेषम् । सविता षडक्षरेण षड् ऋतून् उद् अजयत् तान् उज् जेषम् । मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशून् उद् अजयꣳस् तान् उज् जेषम् । बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ताम् उज् जेषम्
मित्रो नवाक्षरेण त्रिवृतꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् । वरुणो दशाक्षरेण विराजम् उद् अजयत् ताम् उज् जेषम् । इन्द्र ऽ एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ताम् उज् जेषम् । विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयꣳस् ताम् उज् जेषम्
वसवस् त्रयोदशाक्षरेण त्रयोदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् । रुद्राश् चतुर्दशाक्षरेण चतुर्दशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् । आदित्याः पञ्चदशाक्षरेण पञ्चदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् । अदितिः षोडशाक्षरेण षोडशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् । प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम्
एष ते निर्ऋते भागस् तं जुषस्व स्वाहा । ऽअग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा । यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा । विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा । मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य ऽ उत्तरासद्भ्यः स्वाहा । सोमनेत्रेभ्यो देवेभ्यो ऽ उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा
ये देवा ऽ अग्निनेत्राः पुरःसदस् तेभ्यः स्वाहा । ये देवा यमनेत्रा दक्षिणासदस् तेभ्यः स्वाहा । ये देवा विश्वदेवनेत्राः पश्चात्सदस् तेभ्यः स्वाहा । ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस् तेभ्यः स्वाहा । ये देवाः सोमनेत्रा ऽ उपरिसदो दुवस्वन्तस् तेभ्यः स्वाहा
अग्ने सहस्व पृतना ऽ अभिमातीर् अपास्य । दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसि